पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
[अ०३क्ष्लो०३६-३७]
मधुसूदनसरस्वतीश्रीधरस्वामितटीकाभ्यां समेता-


अर्जुन उवाच-
 अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ॥
 अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥

 "ध्यायतो विषयान्पुंसः" इत्यादिना पूर्वमनर्थमूलमुक्तम् । सांप्रतं च "प्रकृतेगुणसंमूढाः" इत्यादिना बहुविस्तरं कथितम् । तत्र किं सर्वाण्यपि समप्राधान्येन कारणानि । अथवैकमेव मुख्य कारणमितराणि तु तत्सहकारीणि केवलम् । तत्राऽऽद्ये सर्वेषां पृथक्पृथनिवारणे महान्प्रयासः स्यात् । अन्त्ये त्वेकस्मिन्नेव निराकृते कृतकृत्यता स्यादित्यतो ब्रूहि मे केन हेतुना प्रयुक्तः प्रेरितोऽयं त्वन्मताननुवर्ती सर्वज्ञानविमूढः पुरुषः पापमनर्थानुबन्धि सर्व फलाभिसंधिपुरःसरं काम्यं चित्रादि शत्रुवधसाधनं च श्येनादि प्रतिषिद्धं च कलञ्जभक्षणादि बहुविधं कर्माऽऽचरति स्वयं कर्तुमनिच्छन्नपि न तु निवृत्तिलक्षणं परमपुरुषार्थानुबन्धि त्वदुपदिष्टं कर्मेच्छन्नपि करोति । न च पारतन्त्र्यं विनेत्थं संभवति । अतो येन बलादिव नियोजितो राज्ञेव भृत्यस्त्वन्मतविरुद्धं सर्वानर्थानुबन्धित्वं जानन्नपि तादृशं कर्माऽऽचरति तमनर्थमार्गप्रवर्तकं मां प्रति ब्रूहि ज्ञात्वा समुच्छेदायेत्यर्थः । हे वार्ष्णेय वृष्णिवंशे मन्मातामहकुले कृपयाऽवतीर्णेतिसंबोधनेन वार्ष्णेयीसुतोऽहं त्वया नोपेक्षणीय इति सूचयति ॥ ३६ ॥

 श्री०टी०-तयोर्न वशमागच्छेदित्युक्तं तदेतदशक्यं मन्वानः--अर्जुन उवाचअथ केनेति । वृष्णिवंशेऽवतीर्णो वार्ष्णेयः । हे वार्ष्णेय, अनर्थरूपं पापं कर्तुमनिच्छन्नपि केन प्रयुक्तः प्रेरितोऽयं पुरुषः पापं चरति । कामक्रोधौ विवेकबलेन निरुन्धतोऽपि पुरुषस्य पुनः पापे प्रवृत्तिदर्शनादन्योऽपि तयोर्मूलभूतः कश्चित्प्रवर्तको भवेदिति संभावनया प्रश्नः ॥ ३६ ॥

 म० टी--एवमर्जुनेन पृष्टे " अथो खल्वाहुः काममय एवायं पुरुष इति " आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय " इत्यादिश्रुतिसिद्धमुत्तरम् -

श्रीभगवानुवाच-
 काम एष क्रोध एष रजोगुणसमुद्भवः ॥
 महाशनो महापाप्मा विद्वयेनमिह वैरिणम् ॥ ३७ ॥

 यस्त्वया पृष्टो हेतुर्बलादनर्थमार्गे प्रवर्तकः स एष काम एव महाञ्शत्रुः । यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनाम् । ननु क्रोधोऽप्यभिचारादौ प्रवर्तको दृष्ट इत्यत आह-- क्रोध एषः। काम एव केनचिद्धेतुना प्रतिहतः क्रोधत्वेन परिणमतेऽतः क्रोधोऽप्येष काम