पृष्ठम्:श्रीमद्भगवद्गीता.pdf/११६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


9 [अ०३०२६-२५] श्रीमद्भगवद्गीता। सक्ताः कर्तृत्वाभिमानेन फलाभिसंधिना च कर्मण्यभिनिविष्टा अविद्वांसोऽज्ञा यथा कुर्वन्ति कर्म लोकसंग्रहं कर्तुमिच्छर्विद्वानात्मविदपि तथैव कुर्यात् । किंतु असक्तः सन्कर्तृत्वाभिमानं फलाभिसंधि चाकुर्वन्नित्यर्थः । भारतेति भरतवंशोद्भवत्वेन भा ज्ञानं तस्यां रतत्वेन वा त्वं यथोक्तशास्त्रार्थबोधयोग्योऽसीति दर्शयति ॥ २५ ॥ श्री० टी० --तस्मादात्मविदाऽपि लोकसंग्रहार्थं तत्कृपया कर्म कार्यमित्युपसंह- रतिसक्ता इति । कर्मणि सक्ता अभिनिविष्टाः सन्तोऽज्ञा यथा कर्म कुर्वन्ति असक्तः सन्विद्वानपि तथैव कुर्याल्लोकसंग्रहं कर्तुमिच्छुः ॥ २५ ॥ म० टी०-ननु कर्मानुष्ठानेनैव लोकसंग्रहः कर्तव्यो न तु तत्त्वज्ञानोपदेशेनेति को हेतुरत आह- न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ॥ जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥ अज्ञानामविवेकिनां कर्तृत्वाभिमानेन फलाभिसंधिना च कर्मसङ्गिनां कर्मण्यभिनिवि- ष्टानां या बुद्धिरहमेतत्कर्म करिष्य एतत्फलं च भोक्ष्य इति तस्या भेदं विचालनमक- त्मिोपदेशेन न कुर्यात् । किंतु युक्तोऽवहितः सन्विद्वाल्लोकसंग्रहं चिकीर्षुरविद्वदधि- कारिकाणि सर्वकर्माणि समाचरस्तेषां श्रद्धामुत्पाद्य जोषयेत्प्रीत्या सेवयेत् । अनधिका- रिणामुपदेशेन बुद्धिविचालने कृते कर्मसु श्रद्धानिवृत्तेर्ज्ञानस्य चानुत्पत्तेरुभयभ्रष्टत्वं स्यात् । तथा चोक्तम्- अज्ञस्यार्धप्रबुद्धस्य सर्व ब्रह्मेति यो वदेत् । महानिरयजालेषु स तेन विनियोजितः " इति ॥ २६ ॥ श्री०टी०-ननु कृपया तत्त्वज्ञानमेवोपदेष्टुं युक्तं नेत्याह-नेति । अज्ञानामत एव कर्मसङ्गिनां कर्मासक्तानामक;त्मोपदेशेन बुद्धर्भेदमन्ययात्वं न जनयेत्कर्मणः सकाशाद्बुद्धिचालनं न कुर्यात् , अपि तु जोषयेत्सेवयेत्। “जुषी" प्रीतिसेवनयोः । अज्ञा- कर्माणि कारयेदित्यर्थः । कथं, युक्तोऽवहितो भूत्वा स्वयमाचरन्सन् । बुद्धिचालने कृते सति कर्मसु श्रद्धानिवृत्तेर्ज्ञानस्य चानुत्पत्तेस्तेषामुभयभ्रंशः स्यादिति भावः ॥२६॥ म० टी०-विद्वदविदुषोः कर्मानुष्ठानसाम्येऽपि कर्तृत्वाभिमानतदभावाभ्यां विशेष दर्शयन्सक्ताः कर्मणीतिश्लोकार्थ विवृणोति द्वाभ्याम्- प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ॥ अहंकारविमूढात्मा कर्ताऽहमिति मन्यते ॥ २७ ॥ २ 44 १ क. अ. 'यमेवेत्यु । २ ज. मन ।