पृष्ठम्:श्रीमद्भगवद्गीता.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
[अ०क्ष्लो ०२३-२५]
मधुसूदनसरस्वतीश्रीधरस्वामितटीकाभ्यां समेता-


 म० टी०-लोकसंग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्कयाऽऽह---

यदि ह्यहं न वर्तेयं(य) जातु कर्मण्यतन्द्रितः ॥
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥

 यदि पुनरहमतन्द्रितोऽनलसः सन्कर्मणि जातु कदाचिन्न व[१]र्ते य नानुतिष्ठेयं कर्माणितदा मम श्रेष्ठस्य सतो वर्त्म मार्ग हे पार्थ मनुष्याः कर्माधिकारिणः सन्तोऽनुवर्तन्तेऽनुवर्तेरन्सर्वशः सर्वप्रकारैः ॥ २३ ॥

 श्री० टी०---अकरणे लोकस्य नाशं दर्शयति-यदीति । जातु कदाचिदतन्द्रितोऽनलसः सन्यदि कर्मणि न वर्तेयं कर्म नानुतिष्ठेयं तर्हि ममैव वर्त्म मार्ग मनुष्या अनुवर्तन्तेऽनुवर्तनित्यर्थः ॥ २३ ॥

 म० टी०-श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामुचितमेव[२], अनुवर्तित्वे को दोष इत्यत आह--

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ॥
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥

 अहमीश्वरश्चेद्यदि कर्म न कुर्यां तदा मदनुवर्तिनां मन्वादीनामपि कर्मानुपपत्तेर्लोकस्थितिहेतोः कर्मणो लोपेनेमे सर्वे लोका उत्सादेयुर्विनश्येयुः । ततश्च वर्णसंकरस्य च कर्ताऽहमेव स्याम् । तेन चेमाः सर्वाः प्रजा अहमेवोपहन्यां धर्मलापेन विनाशयेयम् । कथं च प्रजानामनुग्रहार्थं प्रवृत्त ईश्वरोऽहं ताः सर्वा विनाशयेयमित्यभिप्रायः । यद्यदाचरतीत्यादेरपरा योजना-न केवलं लोकसंग्रहं संपश्यन्कर्तुमर्हसि अपि तु श्रेष्ठाचारत्वादपीत्याह-यद्यदिति । तथा च मम श्रेष्ठस्य यादृश आचारस्तादृश एव मदनुवर्तिना त्वयाऽनुष्ठेयो न स्वातन्त्र्येणान्य इत्यर्थः । कीदृशस्तवाऽऽचारो यो मयाऽनुवर्तनीय इत्याकाङ्क्षायां न मे पार्थेत्यादिभिस्त्रिभिः श्लोकैस्तत्प्रदर्शनमिति ॥ २४ ॥

 श्री० टी०-ततः किमत आह-उत्सीदेयुरिति । उत्सीदेयुः कर्मलोपेन नश्येयुः । ततश्च यो वर्णसंकरो भवेत्तस्याप्यहमेव कर्ता स्यां भवेयम् । एवमहमेव प्रजा उपहन्यां मलिनी कुर्याम् ॥ २४ ॥

 म० टी०---ननु तवेश्वरस्य लोकसंग्रहार्थं कर्मणि कुर्वाणस्यापि कर्तृत्वाभिमानाभावान्न काऽपि क्षतिः । मम तु जीवस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवः स्यादित्यत आह-

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्दिद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ २५ ॥


  1. क. ख. ग. च. छ. ज. झ. ञ. वर्तेयं ।
  2. ख. ध. ङ. च. छ. ज. झ. ञ. “ब को ।