पृष्ठम्:श्रीमद्भगवद्गीता.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०३क्ष्लो०२१-२२]
१११
श्रीमद्भगवद्गीता ।

 श्री० टी०–अत्र सदाचार प्रमाणयति-कर्मणैवेति । कर्मणैव शुद्धसत्त्वाः सन्तः संसिद्धिं सम्यग्ज्ञानं प्राप्ता इत्यर्थः । यद्यपि त्वं सम्यग्ज्ञानिनमेवाऽऽत्मानं मन्यसे तथाऽपि कर्माचरणं भद्रमेवेत्याह-लोकसंग्रहमिति । लोकस्य संग्रहः स्वधर्मे प्रवर्तनम् । मया कर्मणि कृते जनः सर्वोऽपि करिष्यति अन्यथा ज्ञानिदृष्टान्तेनाज्ञः कर्म त्यजन्पतेदित्येवं लोकरक्षणमपि तावत्प्रयोजनं संपश्यन्कर्म कर्तुमेवाहसि न तु त्यक्तुमित्यर्थः ॥ २० ॥

 म० टी०–ननु मया कर्मणि क्रियमाणेऽपि लोकः किमिति तत्संगृह्णीयादित्याशङ्कय श्रेष्ठाचारानुविधायित्वादित्याह---

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥

 श्रेष्ठः प्रधानभूतो राजादिर्यद्यत्कर्माऽऽचरति शुभमशुभं वा तत्तदेवाऽऽचरतीतरः प्राकृतस्तदनुगतो जनः, न त्वन्यत्स्वान्त्र्येणेत्यर्थः । ननु शास्त्रमवलोक्याशास्त्रीयं श्रेष्ठाचारं परित्यज्य शास्त्रीयमेव कुतो नाऽऽचरति लोक इत्याशङ्कयाऽऽचारवत्प्रतिपत्तावपि श्रेष्ठानुसारितामितरस्य दर्शयति-स यदिति । स श्रेष्ठो यल्लौकिकं वैदिकं वा प्रमाणं कुरुते प्रमाणत्वेन मन्यते तदेव लोकोऽप्यनुवर्तते प्रमाणं कुरुते न तु स्वातन्त्र्येण किंचिदित्यर्थः । तथा च प्रधानभूतेन त्वया राज्ञा लोकसंरक्षणार्थं कर्म कर्तव्यमेव प्रधानानुयायिनो जनव्यवहारा भवन्तीति न्यायादित्यभिप्रायः ॥ २१ ॥

 श्री० टी०-कर्मकरणे लोकसंग्रहो यथा स्यात्तथाऽऽह-यदिति । इतरः प्राकृतो जनाऽपि तत्तदेवाऽऽचरति । स श्रेष्ठो जनः कर्मशास्त्रं निवृत्तिशास्त्रं वा यत्प्र- माणं मन्यते तदेव लोकोऽप्यनुवर्ततेऽनुसरति ॥ २१ ॥

 म० टी०----अत्र चाहमेव दृष्टान्त इत्याह त्रिभिः-

न मे पार्थस्ति कर्तव्यं त्रिषु लोकेषु किंचन ॥
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥

 हे पार्थ मे मम त्रिष्वपि लोकेषु किमपि कर्तव्यं नास्ति । यतोऽनवाप्तं फलं किंचिन्ममावाप्तव्यं नास्ति । तथाऽपि वर्त एवं कर्मण्यहं कर्म करोम्येवेत्यर्थः । पार्थेति संबोधयन्विशुद्धक्षत्रियवंशोद्भवस्त्वं शूरापत्यापत्यत्वेन चात्यन्तं मत्समोऽहमिव वर्तितुमर्हसीति दर्शयति ॥ २२ ॥

 श्री० टी०-अत्र चाहमेव दृष्टान्त इत्याह त्रिभिः—न मे पार्थेति । हे पार्थ मे कर्तव्यं नास्ति । यतस्त्रिष्वपि लोकेष्वनवाप्तमप्राप्तं सदवाप्तव्यं प्राप्यं नास्ति । तथाऽपि कर्मण्यहं वर्त एवं कर्म करोम्यवेत्यर्थः ॥ २२ ॥