पृष्ठम्:श्रीमद्भगवद्गीता.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ ०३ क्ष्लो ०१९ ]
१०९
श्रीमद्भगवद्गीता ।


देहोऽपि दैववशगः खलु कर्म याव-
 त्स्वारम्भकं प्रतिसमीक्षत एव सासुः ।
तं सप्रपञ्चमाधिरूढसमाधियोगः
 स्वानं पुनर्न भजते प्रतिबुद्धवस्तुः " इति ॥

 श्रुतिश्च---" तद्यथाऽहिनिर्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेन एव " इति । तत्रायं संग्रहः---

" चतुर्थी भूमिका ज्ञानं तिस्रः स्युः साधनं पुरा ।
जीवन्मुक्तेरवस्थास्तु परास्तिस्रः प्रकीर्तिताः " ॥

 अत्र प्रथमभूमित्रयमारूढोऽज्ञोऽपि न कर्माधिकारी किं पुनस्तत्वज्ञानी तद्विशिष्टो जीवन्मुक्तो वेत्यभिप्रायः ॥ १८ ॥

 श्री० टी०-तत्र हेतुमाह-नैव तस्येति । कृतेन कर्मणा तस्यार्थः पुण्यं नैवास्ति । न चाकृतेन कश्चन कोऽपि प्रत्यवायोऽस्ति निरहंकारत्वेन विधिनिषेधातीतत्वात् । तथाऽपि " तस्मात्तदेषां[१] देवानां न प्रियं यदेतन्मनुष्या विद्युः” इति श्रुतेर्मोक्षे देवकृतविघ्नसंभवात्तत्परिहारार्थं कर्मभिर्देवाः सेव्या इत्याशङ्कयोक्तं सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कश्चिदपि अर्थव्यपाश्रय आश्रय एवं व्यपाश्रयः, अर्थे मोक्ष आश्रयणीयोऽस्य नास्तीत्यर्थः । विघ्नाभावस्य श्रुत्यैवोक्तत्वात् । तथाच श्रुतिः-" तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति ।” इति ।[२] चनेत्यव्ययमप्यर्थे । देवा अपि तस्याऽऽत्मतत्त्वज्ञस्याभूत्यै ब्रह्मताप्रतिबन्धनाय नेशते न शक्नुवन्तीति श्रुतेरर्थः । देवकृतास्तु विघ्नाः सम्यग्ज्ञानोत्पत्तेः प्रागेव । यदेतद्ब्रह्म मनुष्या विद्युस्तदेषां देवानां न प्रियमिति ब्रह्मज्ञानस्यैवाप्रियत्वोक्त्या तत्रैव विघ्नकर्तृत्वस्य सूचितत्वात् ॥ १८ ॥

 म० टी०-यस्मान्न त्वमेवंभूतो ज्ञान किं तु कर्माधिकृत एव मुमुक्षुः-

तस्मादृसक्तः सततं कार्यं कर्म समाचर ॥
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥ १९ ॥

 असक्तः फलकामनारहितः सततं सर्वदा न तु कदाचित्कार्यमवश्यकर्तव्यं यावज्जीवादिश्रुतिचोदितं " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन " इति श्रुत्या ज्ञाने विनियुक्तं कर्म नित्यनैमित्तिकलक्षणं सम्यगाचर यथाशास्त्रं निर्वर्तय । असक्तो हि यस्मादाचरन्नीश्वरार्थं कर्म कुर्वन्सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण परं मोक्षप्राप्नोति पूरुषः पुरुषः स एव सत्पुरुषो नान्य इत्यभिप्रायः ॥ १९ ॥


  1. क. छ. झ. ञ. *षां न ।
  2. क. ख. घ. च. छ. ज. ज्ञ. 'ति । हुने ।