पृष्ठम्:श्रीमद्भगवद्गीता.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० ३ क्ष्लो०१८ ]
१०७
श्रीमद्भगवद्गीता ।


यार्थः । य एवंभूतस्तस्याधिकारहेत्वभावात्किमपि कार्यं वैदिकं लौकिकं वा न विद्यते ॥ १७ ॥

 श्री० टी०-तदेवं न कर्मणामनारम्भान्नैष्कम्यम्' इत्यादिनाऽज्ञस्यान्तःकरणशुद्ध्यर्थं कर्मयोगमुक्त्वा ज्ञानिनः कर्मानुपयोगमाह यस्त्विति द्वाभ्याम्-आत्मन्येव रतिः प्रीतिर्यस्य । ततश्चाऽऽत्मन्येव तृप्तः स्वानन्दानुभवेन निर्वृतः । अत एवाऽऽत्मन्येव संतुष्टो भोगापेक्षारहितो यस्तस्य कर्तव्यं नास्ति ॥ १७ ॥

 म० टी०--नन्वात्मविदोऽपि अभ्युदयार्थं निःश्रेयसार्थं प्रत्यवायपरिहारार्थं वा कर्म स्यादित्यत आह-

नैव तस्य कृतेना नाकृतेनेह कश्चन ॥
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥

 तस्याऽऽत्मरतेः कृतेन कर्मणाऽभ्युदयलक्षणो निःश्रेयसलक्षणो वाऽर्थः प्रयोजन नैवास्ति तस्य स्वर्गाद्यभ्युदयानार्थित्वात् , निश्रेयसस्य च कर्मासाध्यत्वात् । तथा च श्रुतिः-" परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन इति । अकृतो नित्यो मोक्षः कृतेन कर्मणा नास्तीत्यर्थः । ज्ञानसाध्यस्यापि व्यावृत्तिरेवकारेण सूचिता । आत्मरूपस्य हि निःश्रेयसस्य नित्यप्राप्तस्याज्ञानमात्रमप्राप्तिः । तच्च तत्त्वज्ञान- मात्रापनोद्यम् । तस्मिंस्तत्त्वज्ञानेनापनुन्ने तस्याऽऽत्मविदो न किंचित्कर्मसाध्यं ज्ञानसाध्यं वा प्रयोजनमस्तीत्यर्थः । एवंभूतेनापि प्रत्यवायपरिहारार्थं कर्मण्यनुष्ठेयान्येवेत्यत आह-नाकृतेनेति । भावे निष्ठा । नित्यकर्माकरणेनेह लोके गर्हितत्वरूपः प्रत्यवायप्राप्तिरूपो वा कश्चनार्थो नास्ति । सर्वत्रोपपत्तिमाहोत्तरार्धेन । चो हेतौ । यस्मादस्याऽऽत्मविदः सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कोऽपि अर्थव्यपाश्रयः प्रयोजनसंबन्धो नास्ति । कंचिद्रूतविशेषमाश्रित्य कोऽपि क्रियासाध्योऽर्थो नास्तीति वाक्यार्थः । अतोऽस्य कृताकृते निष्प्रयोजने " नैनं कृताकृते तपतः " इति श्रुतेः । " तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति " इति श्रुतेर्देवा अपि तस्य मोक्षाभ- वनाय न समर्था इत्युक्तेर्न विघ्नाभावार्थमपि देवाराधनरूपकर्मानुष्ठानमित्यभिप्रायः । एतादृशो ब्रह्मविद्भूमिकासप्तकभेदेन निरूपितो वसिष्ठेन---

ज्ञानभूमिः शुभेच्छाख्या प्रथमा परिकीर्तिता ।
विचारणा द्वितीया स्यात्तृतीया तनुमानसा ॥
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।
पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता " इति ।

 तत्र नित्यानित्यवस्तुविवेकादिपुरःसरा फलपर्यवसायिनी मोक्षेच्या प्रथमा । ततेा