नुष्ठानाद्धर्मत्पादः । ततः पर्जन्यस्ततोऽन्नं ततो भूतानि पुनस्तथैव भूतानां कर्मप्रवृत्तिरित्येवं परमेश्वरेण प्रवर्तितं चक्रं सर्वजगन्निवार्हकं यो नानुवर्तयति नानुतिष्ठति सोऽघायुः पापजीवनो मोघं व्यर्थमेव जीवति हे पार्थ तस्य जीवनान्मरणमेव वरं जन्मान्तरे धर्मानुष्ठानसंभवादित्यर्थः । तथा च श्रुतिः---." अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽ थ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छ[१]ते तेन पितॄणामथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशूभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः' इति । ब्रह्मविद् व्यावर्तयति-इन्द्रियाराम इति। यत इन्द्रियैर्विषयेष्वारमति अतः कर्माधिकारी संस्तदकरणात्पापमेवाऽऽचिन्वन्व्यर्थमेव जीवतीत्याभप्रायः ॥ १६ ॥
श्री० टी०-यस्मादेवं परमेश्वरेणैव भूतानां पुरुषार्थसिद्धये कर्मादिचक्र प्रवर्तितं तस्मात्तदकुर्वतो वृथैव जीवितमित्याह-एवमिति । परमेश्वरवाक्यभूताद्वेदाख्याड्रह्मणः पुरुषाणां कर्मणि प्रवृत्तिस्ततः कर्मनिष्पत्तिस्ततः पर्जन्यस्ततोऽन्नं ततः भूतानि भूतानां च पुनस्तथैव कर्मणि प्रवृत्तिरित्येवं प्रवर्तितं चक्रं यो नानुवर्तयति नानुतिष्ठति अघायुरघं पापरूपमायुर्यस्य सः, यत इन्द्रियैर्विषयेष्वेवाऽऽरमति न तु ईश्वराराधना कर्मणि अतो मोघं व्यर्थं स जीवति ॥ १६ ॥
म० टी०---यस्त्विन्द्रियारामो न भवति परमार्थदर्शी स एवं जगचक्रप्रवृत्तिहेतु- भूतं कर्माननुतिष्ठन्नपि न प्रत्यवैति कृतकृत्यत्वादित्याह द्वाभ्याम्-
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्चै मानवः ॥ |
इन्द्रियारामो हि स्रक्चन्दनवनितादिषु रतिमनुभवति मनोज्ञानपानादिषु तृप्तिं पशुपुत्र हिरण्यादिलाभेन रोगाद्यभावेन च तुष्टिम् । उक्तविषयाभावे रागिणामरत्यतृप्त्यतुष्टिदर्शनाद्रतितृप्तितुष्टयो मनोवृत्तिविशेषाः साक्षिसिद्धाः । लब्धपरमात्मानन्दस्तु द्वैतदर्शनाभावादतिफल्गुत्वाच्च विषयसुखं न कामयत इत्युक्तं “यावानर्थ उदपाने" इत्यत्र । अतोऽनात्मविषयकरतितृप्तितुष्टयभावादात्मानं परमानन्दमद्वयं साक्षात्कुर्वन्नुपचारादेवमुच्यते--आत्मरतिरात्मतृप्त आत्मसंतुष्ट इति । तथा च श्रुतिः-" आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः " इति । आत्मतृप्तश्चेति चकार एवकारानुकर्षणार्थः । मानव इति यः कश्चिदपि मनुष्य एवंभूतः स एव कृतकृत्यो न तु ब्राह्मणत्वादिप्रकर्षेणेति कथयितुम् । आत्मन्येव च संतुष्ट इत्यत्र चकारः समुच्च-
- ↑ ख. च. झ. “च्छति ते ।