पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० ३ क्ष्लो० १५-१६ ]
१०५
श्रीमद्भगवद्गीता ।


 म० टी० ---तच्चापूर्वोत्पादकम्--

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥

 ब्रह्मोद्भवं ब्रह्म वेदः स एवोद्भवः प्रमाणं यस्य तत्तथा । वेदविहितमेव कर्मापूर्वसाधनं जानीहि न त्वन्यत्पाषण्डप्रतिपादितमित्यर्थः । ननु पाषण्डशास्त्रापेक्षया वेदस्य किं वैलक्षण्यं यते वेदप्रतिपादित एवं धर्मो नान्य इत्यत आह---ब्रह्म वेदाख्यमक्षरसमुद्भवमक्षरात्परमात्मनो निर्दोषात्पुरुषानिश्वासन्यायेनाबुद्धिपूर्वं समुद्भव आविर्भावो यस्य तदक्षरसमुद्भवम् । तथा चापौरुषेयत्वेन निरस्तसमस्तदोषाशङ्कं वेदवाक्यं प्रमितिजनकतया प्रमाणमतीन्द्रियेऽर्थे न तु भ्रमप्रमादकरणापाटवविप्रलिप्सादिदोषवत्प्रणीतं पाखण्डवाक्यं प्रमितिजनकमिति भावः । तथा च श्रुतिः-“अस्य महते भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथवाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि निश्वसितानि[१] " इति । तस्मात्साक्षात्परमात्मसमुद्भवतया सर्वगतं सर्वप्रकाशकं नित्यमविनाशि च ब्रह्म वेदाख्यं यज्ञे धर्माख्येऽतीन्द्रिये प्रतिष्ठितं तात्पर्येण । अतः पाषण्डप्रतिपादितोपधर्मपरित्यागेन वेदबोधित एव धर्मोऽनुष्ठेय इत्यर्थः ॥ १५ ॥

 श्री० टी०--तथा-कर्म ब्रह्मोद्भवमिति । तच्च यजमानादिव्यापाररूपं कर्म ब्रह्मोद्भवं विद्धि ब्रह्म वेदस्तस्मात्प्रवृत्तं जानीहि । तच्च ब्रह्म वेदाख्यमक्षरात्परब्रह्मणः समुद्भूतं विद्धि। " अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः । इति श्रुतेः । यत एवमक्षरादेव यज्ञप्रवृत्तेरत्यन्तं तस्याभिप्रेतो यज्ञस्तस्मात्सर्वगतमप्यक्षरे ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितं, यज्ञेनोपायभूतेन प्राप्यत इति यज्ञे प्रतिष्ठितमुच्यत उद्यमस्था सदा लक्ष्मीरितिवत् । यद्वा यस्माज्जगचक्रमूलं कर्म तस्मात्सर्वगतं मन्त्रार्थवादैः सर्वेषु[२] सिद्धार्थप्रतिपादकेषु [३]भूतान्वाख्यानादिषु गतं स्थितमपि वेदाख्यं ब्रह्म सर्वदा यज्ञे तात्पर्यरूपेण प्रतिष्ठितम् । अतो यज्ञादिकर्म कर्तव्यमित्यर्थः ॥ १५ ॥

 म० टी०-भवत्वेवं ततः किं फलितमित्याह-

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ॥
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥


 आदौ परमेश्वरान्सर्वावभासकनित्यनिर्दोषवेदाविर्भावः । ततः कर्मपरिज्ञानं ततोऽ-


  1. ख. ई. झ. ञ. °नि सर्वाणि नि ।
  2. ख. ग. घ. ङ. छ.°षु भू ।
  3. क. ज 'तार्थवादव्याख्या ।