पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ०३क्ष्लो०१२-१३ ]
१०३
श्रीमद्भगवद्गीता ।

श्री० टी०-कथमिष्टकामदोग्धा यज्ञो भवेदित्यत्राऽऽह-देवानिति । अनेन यज्ञेन यूयं देवान्भावयत हविर्भागैः संवर्धयत । ते च देवा वो युष्मान्संवर्धयन्तु वृष्ट्यादिनाऽन्नोत्पत्तिद्वारेण । एवमन्योन्यं संवर्धयन्तो देवाश्च यूयं च परस्परं श्रेयोऽभीष्टमर्थं प्राप्स्यथ ॥ ११ ॥

 म० टी०-न केवलं पारत्रिकमेव फलं यज्ञात् , किं त्वैहिकमपीत्याह--

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ॥
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥

 अभिलषितान्भोगान्पश्वन्नहिरण्यादीन्वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति । हि यस्माद्यज्ञैर्भवितास्तोषितास्ते । यस्मात्तैऋणवद्भवद्भयो दत्ता भोगास्तस्मातैर्देवैर्दत्तान्भगानेभ्यो देवेभ्योऽप्रदाय यज्ञेषु देवोदेशेनाऽऽहुतीरसंपाद्य यो भुङ्के देहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव स देवस्वापहारी देवर्णानपाकरणात् ॥ १२ ॥

 श्री० टी०-एतदेव स्पष्टी कुर्वन्कर्माकरणे दोषमाह–इष्टानिति । यज्ञैर्भाविताः सन्तो देवा वृष्ट्यादिद्वारेण वो युष्मभ्यं भोगान्दास्यन्ति हि । अतो देवैर्दत्तानन्नादीनेभ्यो देवेभ्यः पञ्चयज्ञादिभिरदत्त्वा यो भुङ्के स तु स्तेनश्चोर एव ज्ञेयः ॥ १२ ॥

 म० टी०-ये तु--

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ॥
भुञ्जते ते त्वधं पापा ये पचन्यात्मकारणात् ॥ १३ ॥

 वैश्वदेवादियज्ञावशिष्टममृतं येऽश्नन्ति ते सन्तः शिष्टा वेदोक्तकारित्वेन देवाघृणापाकरणात् । अतस्ते मुच्यन्ते सर्वैर्विहिताकरणनिमित्तैः पूर्वकृतैश्च पञ्चसूनानिमित्तैः किल्विषैः । भूतभाविपातकासंसर्गिणस्ते भवन्तीत्यर्थः । एवमन्वये भूतभाविपापाभावमुक्त्वा व्यतिरेके दोषमाह-भुञ्जते ते वैश्वदेवाद्यकारिणोऽघं पापमेव । तुशब्दोऽवधारणे । ये पापाः पञ्चसूनानिमित्तं प्रमादकृतहिंसानिमित्तं च कृतपापाः सन्त आत्मकारणादेव पचन्ति न तु वैश्वदेवाद्यर्थम् । तथा च पञ्चसूनादिकृतपापे विद्यमान एव वैश्वदेवादिनित्यकर्माकरणनिमित्तमपरं पापमाप्नुवन्तीति भुञ्जते ते त्वघं पापा इत्युक्तम् । तथा च स्मृतिः----

"कण्डनी पेषणी चुली उदकुम्भी च मार्जनी ।
पञ्च सूना गृहस्थस्य ताभिः स्वर्ग न विन्दति " इति ॥

 "पञ्चसूनाकृतं पापं पञ्चयज्ञैर्व्यपोहति ॥ इति च । श्रुतिश्च इदमेवास्य तत्साधारणमन्नं यदिदमद्यते स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रं ह्येतत् " इति । मन्त्रवर्णोऽपि--