पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
[अ० ३क्ष्लो०१०-११]
मधुसूदनसरस्वतीश्रीधरस्वामितटीकाभ्यां समेता-


सहयज्ञाः प्रजाः दृष्ट्वा पुरोवाच प्रजापतिः ॥
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥

 सह यज्ञेन विहितकर्मकलापेन वर्तन्त इति सहयज्ञाः कर्माधिकृता इति यावत् । "वोपसर्जनस्य ' इति पक्षे सादेशाभावः । प्रजास्त्रीन्वर्णान्पुरा कल्पादौ सृष्टोवाच प्रजानां पतिः स्रष्टा । किमुवाचेत्याह–अनेन यज्ञेन स्वाश्रमोचितधर्मेण प्रसविष्यध्वं प्रसूयध्वम् । प्रसवो वृद्धिः । उत्तरोत्तरामभिवृद्धिं लभध्वमित्यर्थः । कथमनेन वृद्धिः स्यादत आह-एष यज्ञाख्यो धर्मों व युष्माकमिष्टकामधुक् , इष्टानभिमतान्कामान्काम्यानि फलानि दोग्धि प्रापयतीति तथा । अभीष्टभोगप्रदोऽस्त्वित्यर्थः । अत्र यद्यपि यज्ञग्रहणमावश्यककर्मोपलक्षणार्थमकरणे प्रत्यवायस्याग्रे कथनात् । काम्यकर्मणां च प्रकृते प्रस्तावो नास्त्येव ‘मा कर्मफलहेतुर्भूः' इत्यनेन निराकृतत्वात् । तथाऽपि नित्यकर्मणामप्यानुषङ्गिकफलसद्भावात् “एष वोऽस्त्विष्टकामधुक्' इत्युपपद्यते । तथाचाऽऽपस्तम्बः स्मरति-" तद्यथाऽऽम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणमर्था अनुत्पद्यन्ते नो चेदनूत्पद्यन्ते ने धर्महानिर्भवति !' इति । फलसद्भावेऽपि तदभिसंध्यनभिसंधिभ्यां काम्यनित्ययोर्विशेषः । अनभिसंहितस्यापि वस्तुस्वभावादुत्पत्तौ न विशेषः । विस्तरेण चाग्रे प्रतिपादयिष्यते ॥ १० ॥

 श्री० टी०--प्रजापतिवचनादपि कर्मकर्तैव श्रे[१]ष्ठ इत्याह सहयज्ञा इति चतुर्भिः---- यज्ञेन सह वर्तन्त इति सहयज्ञा यज्ञाधिकृता ब्राह्मणाद्याः प्रजाः पुरा सर्गादौ सृष्ट्वा ब्रह्मेदमुवाच । अनेन यज्ञेन प्रसविष्यध्वं प्रसूयध्वम् । प्रसवो हि वृद्धिः । उत्तरोत्तरा[२]भिवृद्धिं लभध्वमित्यर्थः । तत्र हेतुः--एष यज्ञो वो युष्माकमिष्टकामधुगिष्टान्कामान्दोग्धीति तथा । अभीष्ट भोगप्रदोऽस्त्वित्यर्थः । अत्र च यज्ञग्रहणमावश्यककर्मोपलक्षणार्थम् । काम्यकर्मप्रशंसा तु प्रकरणेऽसङ्गताऽपि सामान्यतोऽकर्मणः कर्म श्रेष्ठमित्येतदर्थेत्यदोषः ॥ १० ॥

 म० टी०-कथमिष्टकामदोग्धृत्वं यज्ञस्येति तदाह-

देवान्भावयतानेन ते देवा भावयन्तु वः ॥
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥

 अनेन यज्ञेन यूयं यजमाना देवानिन्द्रादीन्भावयत हविर्भागैः संवर्धयत तर्पयतेत्यर्थः । ते देवा युष्माभिभविताः सन्तो वो युष्मान्भावयन्तु वृष्ट्यादिनाऽन्नोत्पत्तिद्वारेण संवर्धयन्तु । एवमन्योन्यं संवर्धयन्तो देवाश्च यूयं च परं श्रेयोऽभिमतमर्थं प्राप्स्यथ देवास्तृप्तिं प्राप्स्यन्ति यूयं च स्वर्गाख्यं परं श्रेयः प्राप्स्यथेत्यर्थः ॥ ११ ॥


  1. ख. ग. घ. ङ. च. छ. ज. झ. विशिष्ट ।
  2. क. छ. झ. ञ. 'रामाभ” ।