पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ०३ ३क्ष्लो०८-९ ]
१०१
श्रीमद्भगवद्गीता ।


ष्ठति असक्तः फलाभिलाषरहितः सन्स विशिष्यते विशिष्टो भवति चित्तशुध्द्या ज्ञान- वान्भवतीत्यर्थः ॥ ७ ॥

 म० टी०-यस्मादेवं तस्मान्मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियैः-

नियत कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ॥
शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः ॥ ८ ॥

 त्वं प्रागननुष्ठितशुद्धिहेतुकर्मा नियतं विध्युद्देशे फलसंबन्धशून्यतया नियतनिमित्तेन विहितं कर्म श्रौतं स्मार्तं च नित्यमिति प्रसिद्धं कुरु । कुर्विति मध्यम पुरुषप्रयोगेणैव त्वमिति लब्धे त्वमिति पदमर्थान्तरे संक्रमितम् । कस्मादशुद्धान्तःकरणेन कर्मैंव कर्तव्यं हि यस्मादकर्मणोऽकरणात्कर्मैव ज्यायः प्रशस्यतरम् । न केवलं कर्माभावे तवान्तःकरणशुद्धिरेव न सिध्येत् ।।किं तु अकर्मणो युद्धादिकर्मरहितस्य ते तव शरीरयात्रा शरीरस्थितिरपि न प्रकर्षेण क्षात्रवृत्तिकृतत्वलक्षणेन सिध्येत् । तथा च प्रागुक्तम् । अपि चेत्यन्तःकरणशुद्धिसमुच्चयार्थः ॥ ८ ॥

 श्री० टी०–यस्मादेवं तस्मात्-नियतमिति । नियतं नित्यं संध्योपासनादि कर्म कुरु । हि यस्मादकर्मणः कर्माकरणान्सकाशात्कर्म ज्यायोऽधिकतरम् । अन्यथाऽकर्मणः सर्वकर्मशून्यस्य तव शरीरनिर्वाहोऽपि न प्रसिध्येन्न भवेत् ॥ ८ ॥

 म० टी०-- कर्मणा बध्यते जन्तुः " इति स्मृतेः सर्वं कर्म बन्धात्मकत्वान्मुसु- क्षुणा न कर्तव्यमिति मत्वा तस्योत्तरमाह-

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ॥
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥

 यज्ञः परमेश्वरः " यज्ञो वै विष्णुः ॥ इति श्रुतेः । तदाराधनार्थं यत्क्रियते कमें तद्यज्ञार्थं तस्मात्कर्मणोऽन्यत्र कर्मणि प्रवृत्तोऽयं लोकः कर्माधिकारी कर्मबन्धनः कर्मणा बध्यते न त्वीश्वराराधनार्थेन । अतस्तदर्थं यज्ञार्थं कर्म हे कौन्तेय त्वं कर्मण्यधिकृतो मुक्तसङ्गः सन्समाचर सम्यक्श्रद्धादिपुरःसरमाचर ॥ ९ ॥

 श्री० टी०-सांख्यास्तु सर्वमपि कर्म बन्धकत्वान्न कार्यमित्याहस्तन्निराकुर्वन्नाह-यज्ञार्थादिति । यज्ञोऽत्र विष्णुः । “यज्ञो वै विष्णुः” इति श्रुतेः । तदाराधनार्थात्कर्मणोऽन्यत्र तदेकं विनाऽयं लोकः कर्मबन्धनः कर्मभिर्बध्यते न त्वीश्वराराधनार्थेन कर्मणा । अतस्तदर्थं विष्णुप्रीत्यर्थं मुक्तसङ्गो निष्कामः सन्कर्म सम्यगाचर ॥ ९ ॥

 म० टी०-प्रजापतिवचनाप्यधिकृतेन कर्म कर्तव्यमित्याह सहयज्ञा इत्यादिचतुर्भिः--