पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
[अ०३श्लौ ०६-७]
मधुसूदनसरस्वतीश्रीधरस्वामकृतटीकाभ्यां समेता--


 म० टी०-यथाकथंचिदौत्सुक्यमात्रेण कृतसंन्यासस्त्वशुद्धचित्तस्तत्फलभाड्न भवति यतः--

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६॥

 यो विमूढात्मा रागद्वेषादिदूषितान्तःकरण औत्सुक्यमात्रेण कर्मेन्द्रियाणि वाक्पाण्यादीनि संयम्य निगृह्य बहिरिन्द्रियैः कर्मण्यकुर्वन्निति यावत् । मनसा रागादिप्रेरितेनेन्द्रियार्थाशब्दादीन्न त्वात्मतत्त्वं स्मरन्नास्ते कृतसंन्यासोऽहमित्यभिमानेन कर्मशून्यस्तिष्ठति स मिथ्याचारः सत्त्वशुद्धयभावेन फलायोग्यत्वात्पापाचार उच्यते,

"त्वंपदार्थविवेकाय संन्यासः सर्वकर्मणाम् ।
श्रुत्येह विहितो यस्मात्तत्यागी पतितो भवेत् "

इत्यादिधर्मशास्त्रेण । अत उपपन्नं न च संन्यसनादेवाशुद्धान्तःकरणः सिद्धिं सम- धिगच्छतीति ॥ ६ ॥

 श्री० टी०-अतोऽज्ञं कर्मत्यागिनं निन्दति-कमेंद्रियाणीति । वाक्पाण्यादीनि कर्मेन्द्रियाण्यपि संयम्य निगृह्य यो मनसा भगवद्ध्यानच्छलेनेन्द्रियान्विषयान्स्मरन्नास्तेऽविशुद्धतया मनस आत्मनि स्थैर्याभावात्स मिथ्याचारः कपटाचारो दाम्भिक उच्यत इत्यर्थः ॥ ६ ॥

 म० टी०-औत्सुक्यमात्रेण सर्वकर्माण्यसंन्यस्य चित्तशुद्धये निष्कामकमण्येक यथाशास्त्रं कुर्यात् । यस्मात्--

यस्त्विन्द्रियाणि मनसा नियम्याऽऽरभतेऽर्जुन ॥
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥

 तुशब्दोऽशुद्धान्तःकरणसंन्यासिव्यतिरेकार्थः । इन्द्रियाणि ज्ञानेन्द्रियाणि श्रोत्रादीनि मनसा सह नियम्य पापहेतुशब्दादिविषयासक्तेर्निवर्त्य मनसा विवेकयुक्तेन नियम्येति वा, कर्मेन्द्रियैर्वाक्पाण्यादिभिः कर्मयोगं शुद्धिहेतुतया विहितं कर्मऽऽरभते करोत्यसक्तः फलाभिलाषशून्यः सन्यो विवेकी स इतरस्मान्मिथ्याचाराद्विशिष्यते । परिश्रमसाम्येऽपि फलातिशयभाक्त्वेन श्रेष्ठो भवति । हेऽर्जुनाऽऽश्चर्यमिदं पश्य यदेकः कर्मेन्द्रियाणि निगृह्णज्ञानेन्द्रियाणि व्यापारयन्पुरुषार्थशून्योऽपरस्तु ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियाणि व्यापारयन्परमपुरुषार्थभाग्भवतीति[१] ॥ ७ ॥

 श्री० टी०--एतद्विपरीतः कर्मकर्ता श्रेष्ठ इत्याह-यस्त्विति । यस्तु ज्ञानेन्द्रियाणि मनसा नियम्येश्वरप्रवणानि कृत्वा कर्मेन्द्रियैः कर्मरूपं योगमुपायमारभतेऽनुति-


  1. क. ङ. °ति वा ॥ ७ ॥