पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०३क्ष्लो०५]
९९
'श्रीमद्भगवद्गीता ।


साऽनाशकेन " इति श्रुत्याऽऽत्मज्ञाने विनियुक्तानामनारम्भादननुष्ठानाच्चित्तशुद्ध्यभावेन ज्ञानायोग्यो बहिर्मुखः पुरुषो नैष्कर्म्यं सर्वकर्मशून्यत्वं ज्ञानयोगेन निष्ठामिति यावत् , नाश्नुते न प्राप्नोति । ननु एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति" इति श्रुतेः सर्वकर्मसंन्यासादेव ज्ञाननिष्ठोपपत्तेः कृतं कर्मभिरित्यत आह-न च संन्यसनादेव चित्तशुद्धिं विना कृतात्सिध्धिं ज्ञाननिष्ठालक्षणां सम्यक्फलपर्यवसायित्वे[१]नाधिगच्छति नैव प्राप्नोतीत्यर्थः । कर्मजन्यां चित्तशुद्धिमन्तरेण सन्यास एव न संभवति । यथाकथंचिदौत्सुक्यमात्रेण कृतोऽपि न फलपर्यवसायीति भावः ॥ ४ ॥

 श्री० टी०--अतः सम्यक्चित्त[२]शुध्द्या ज्ञानोत्पत्तिपर्यन्तं वर्णाश्रमोचितानि कर्माणि कर्तव्यानि । अन्यथा चित्तशुध्द्यभावेन ज्ञानानुत्पत्तेरित्याह-न कर्मणामिति । कर्मणामनारम्भादननुष्ठानानैष्कर्म्यं ज्ञानं नाश्नुते न प्राप्नोति । ननु च एतमेव प्रव्राजिनो लोकमीसन्तः प्रव्रजन्ति " इति संन्यासस्य मोक्षाङ्गत्वश्रुतेः संन्यासादेव मोक्षो भवि[३]ष्यतीति किं कर्मभिरित्याशङ्कयोक्तम्-न चे ति । न च चित्तशुद्धिं विना कृतात्संन्यसनादेव ज्ञानशून्यात्सिद्धिं मोक्षं समधिगच्छति प्राप्नोति ॥ ४ ॥

 म० टी०–तत्र कर्मजन्यशुद्धयभावे बहिर्मुखः-

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥

 हि यस्मात्क्षणमपि कालं जातु कदाचित्कश्चिदप्यजितेन्द्रियोऽकर्मकृत्सन्न तिष्ठति । अपि तु लौकिकवैदिककर्मानुष्ठानव्यग्र एव तिष्ठति । तस्मादशुद्धचित्तस्य संन्यासो न संभवतीत्यर्थः । कस्मात्पुनरविद्वान्कर्मण्यकुर्वाणो न तिष्ठति । हि यस्मात्सर्वः प्राणी चित्तशुद्धिरहितोऽवशोऽस्वतन्त्र एवं सन्प्रकृतिजैः प्रकृतितो जातैरभिव्यक्तैः कार्याकारेण सत्त्वरजस्तमोभिः स्वभावप्रभवैर्वा रागद्वेषादिभिर्गुणैः कर्म लौकिकं वैदिकं वा कार्यते । अतः कर्माण्यकुर्वाणो न कश्चिदपि तिष्ठतीत्यर्थः । यतः स्वाभाविका गुणाश्चालका अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्मसंन्यासो न संभवतीति न संन्यासनिबन्धना ज्ञाननिष्ठा संभवतीत्यर्थः ॥ ५ ॥

 श्री० टी०---कर्मणां च संन्यासस्तेष्वनासक्तिमात्रं न तु स्वरूपेणाशक्यत्वादित्याह-न हीति । जातु कस्यांचिदवस्थायां क्षणमात्रमाप कश्चिदपि ज्ञानी वाऽज्ञो वाऽकर्मकृत्कर्मण्यकुर्वाणो न तिष्ठति । तत्र हेतुः प्रकृतिजैः स्वभावप्रभवै रागद्वेषादिभिगुणैः सर्वोऽपि जनः कर्म कार्यते कर्मणि प्रवर्त्यतेऽवशोऽस्वतन्त्रः सन् ॥ ५ ॥


  1. क. ग. छ. झ. ञ. वेन ना।
  2. क. "शुद्ध्यर्थं ज्ञा ।
  3. ग. घ. छ. ज. झ. °ध्यति ।