पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
[अ०३क्ष्लो०४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


कारोहणार्थं "धर्म्याद्धि युद्धाच्छ्ेयोऽन्यत्क्षत्रियस्य न विद्यते" इत्यादिना । अत एव न ज्ञानकर्मणोः समुच्चयो विकल्पो वा । किं तु निष्कामकर्मणा शुद्धान्तःकरणानां सर्वकर्मसंन्यासेनैव ज्ञानमिति चित्तशुध्ध्यशुद्धिरूपावस्थाभेदेनैकमेव त्वां प्रति द्विविधा निष्ठोक्ता- एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ” इति । अतो भूमिकाभेदेनैकमेव प्रत्युभयोपयोगातन्नाधिकारभेदेऽप्युपदेशवैयर्थ्यमित्यभिप्रायः । एतदेव दर्शयितुमशुद्धचित्तस्य चित्तशुद्धिपर्यन्तं कर्मानुष्ठानं न कर्मणामनारम्भादित्यादिभिर्मोघं पार्थ स जीवतीत्यन्तैस्त्रयोदशभिर्दर्शयति । शुद्धचित्तस्य तु ज्ञानिनो न किंचिदपि कर्मापेक्षितमिति दर्शयति यस्त्वात्मरतिरिति द्वाभ्याम् । तस्मादसक्त इत्यारभ्य तु बन्धहेतोरपि कर्मणो मोक्षहेतुत्वं सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण संभवति फलाभिसंधिराहित्यरूपकौशलेनेति दर्शयिष्यति । ततः परं त्वथ केनेति प्रश्नमुथाप्य कामदोषेणैव काम्यकर्मणः शुद्धिहेतुत्वं नास्ति । अतः कामराहित्येनैव कर्माणि कुर्वन्नन्तःकरणशुध्ध्या

 श्री० टी०---अत्रोत्तरम्-लोकेस्मिन्निति । अयमर्थः--यदि मया परस्परनिरपेक्ष मोक्षसाधनत्वेन कर्मज्ञानयोगरूपं निष्ठाद्वयमुक्तं स्यात्तर्हि द्वयोर्मध्ये यद्भद्रं तदेकं वदेति त्वदीयप्रश्नः संगच्छेत, न तु मया तथोक्तं, किं तु द्वाम्यामेकैव ब्रह्मनिष्ठोक्ता, गुणप्रधानभूतयोस्तयोः स्वातन्त्र्यानुपपत्तेः । एकस्या एव तु प्रकारभेदमात्रमाधिकारभेदेनोक्तमिति । अस्मिशुद्धाशुद्धान्तःकरणतया द्विविधे लोकेऽधिकारिजने द्वे विधे प्रकारौ यस्याः सा द्विविधा निष्ठा मोक्षपरता पुरा पूर्वाध्याये मया सर्वज्ञेन प्रोक्तो स्पष्टमेवोक्ता । प्रकारद्वयमेव निर्दिशति-ज्ञानयोगेनेति । सांख्यानां शुद्धान्तःकरणानां ज्ञानभूमिकामारूढानां ज्ञानपरिपाकार्थं ज्ञानयोगेन ध्यानादिना निष्ठा ब्रह्मपरतोक्ता " तानि सर्वाणि संयम्य युक्त आसीत मत्परः' इत्यादिना । सांख्यभूमिकामारुरुक्षुणां तु अन्तःकरणशुद्धिद्वारा तदारोहार्थं तदुपायभूतकर्मयोगाधिकारिणां योगिनां कर्मयोगेन(ण) निष्ठोक्ता धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते " इत्यादिना । अत एवं चित्तशुद्धशुद्धिरूपावस्थाभेदेनैव द्विविधाऽपि निष्ठोक्ता-“एषा तेऽभिाहता सांख्ये बुद्धिर्योगे त्विमां शृणु[१]" इति ३ ॥

 म० टी०-तत्र कारणाभावे कार्यानुपपत्तेः-

न कर्मणामनारम्भानैष्कर्म्यं पुरुषोऽश्रुते ॥
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥

 कर्मणां " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन . तप-


  1. ख. इत्यादिना ॥ ३ ॥