पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०३क्ष्लो०३]
९७
श्रीमद्भगवद्गीता ।


वैकमेवाधिकार मे निश्चित्य वद । येनाधिकारनिश्चयपुरःसरमुक्तेन त्वया मया चानुष्टितेन ज्ञानेन कर्मणा वैकेन श्रेयो मोक्षमहमाप्नुयां प्राप्तुं योग्यः स्याम् । एवं ज्ञानकर्मनिष्ठयोरेकाधिकारित्वे विकल्पसमुच्चययोरसंभवादधिकारिभेदज्ञानायार्जुनस्य प्रश्न इति स्थितम् । इहेतरेषां कुमतं समस्तं श्रुतिस्मृतिन्यायबलानिरस्तं पुनः पुनर्भाष्यकृताऽतियत्नादतो न तत्कर्तुमहं प्रवृत्तः ।

भाष्यकारमतसारदर्शिना ग्रन्थमात्रमिह योज्यते मया ।
आशयो भगवतः प्रकाश्यते केवलं स्ववचसो विशुद्धये ॥ २ ॥

 श्री० टी०-ननु " धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते " इत्यादिना कर्मणोऽपि श्रेष्ठत्वमुक्तमेवेत्याशङ्कयाऽऽह-व्यामिश्रेणेति । क्वचित्कर्मप्रशंसा क्वचिज्ज्ञानप्रशंसेत्येवं व्यामिश्रं संदेहोत्पादकमिव यद्वाक्यं तेन मे बुद्धिं मतिमुभयत्र दोलायितां कुर्वन्मोहयसीव । परमकारुणिकस्य तव मोहकत्वं नास्त्येव तथाऽपि भ्रान्त्या ममैवं भातीतीवशब्देनोक्तम् । अत उभयोर्मध्ये यद्भद्रं तदेकं निश्चित्य वदेति । यद्वा---इदमेव श्रेयःसाधनमिति निश्चित्य येनानुष्ठितेन श्रेयो मोक्षमहमाप्नुयां प्राप्स्यामि तदेवैकं वदेत्यर्थः ॥ २ ॥

 म० टी०–एवमधिकारिभेदेऽनेन पृष्टे तदनुरूपं प्रतिवचम्---

श्रीभगवानुवाच-
 लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।
 ज्ञानयोगेन सांख्यानां कर्मयोगेन(ण) योगिनाम् ॥३॥

 अस्मिन्नधिकारित्वाभिमते लोके शुद्धाशुद्धान्तःकरणभेदेन द्विविधे जने द्विविधा द्विप्रकारा निष्ठा स्थितिर्ज्ञानपरता कर्मपरता च पुरा पूर्वाध्याये मया तवात्यन्तहितकारिणा प्रोक्ता प्रकर्षेण स्पष्टत्वलक्षणेनोक्ता । तथा चाधिकार्थैक्यशङ्कया मा ग्लासीरिति भावः । हेऽनघापापेति संबोधयन्नुपदेशयोग्यतामर्जुनस्य सूचयति । एकैव निष्ठा साध्यसाधनावस्थाभेदेन द्विप्रकारा न तु द्वे एव स्वतन्त्रे निष्ठे इति कथयितुं निष्ठेत्येकवचनम् । तथा च वक्ष्यति-" एकं सांख्यं च योगं च यः पश्यति स पश्यति " इति । तामेव निष्ठां वैविध्येन दर्शयति-संख्या सम्यगात्मबुद्धिस्तां प्राप्तवतां ब्रह्मचर्यादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां ज्ञानभूमिमारूढानां शुद्धान्तःकरणानां सांख्यानां ज्ञानयोगेन ज्ञानमेव युज्यते ब्रह्मणाऽनेनेति व्युत्पत्त्या योगस्तेन निष्ठोक्ता " तानि सर्वाणि संयम्य युक्त आसीत मत्परः " इत्यादिना । अशुद्धान्तःकरणानां तु ज्ञानभूमिमनारूढानां योगिनां कर्माधिकारयोगिनां कर्मयोगेन(ण) कर्मैव युज्यतेऽन्तः- करणशुद्धयाऽनेनेति व्युत्पत्त्या योगस्तेन निष्ठोक्ताऽन्तःकरणशुद्धिद्वारा ज्ञानभूमि-