[ सर्गः ७ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । एकाक्षरस्यापि गुरुः प्रदाता शास्रोपदेष्टा किमु भाषणीयम् ॥ अहं हि सर्वज्ञगुरोरधीत्य प्रत्यादिशे तेन गुरोर्महागः ॥ १० ॥ तदेवमित्थं सुगतादधीत्य प्राघातयं तत्कुलमेव पूर्वम् ॥ जैमिन्युपज्ञेऽभिनिविष्टचेताः शात्रे निरास्थं परमेश्वरं च ॥ १ ॥ दोषद्वयस्यास्य चिकीर्षरर्ह न्यथोदितां निष्कृतिमाश्रयाशम् ॥ प्राविक्षमेषा पुनरुक्तभूता जाता भवत्पादनिरीक्षणेन ॥ २ ॥ भाष्यं प्रणीतं भवतेति योगि न्नाकण्र्य तत्रापि विधाय वृत्ति । यशोऽधिगच्छेयमिति स्म वाञ्छा स्थिता पुरा संप्रति किं तदुक्तया ॥ ३ ॥ २८९ एकाक्षरस्यापि पदाता गुरुर्भवति शास्रोपदेष्टा स भवतीति किमु वक्तव्यम् । अहं तु सर्वज्ञात्सुगतात् । 'सर्वज्ञः सुगतः' इत्यमरः । गुरोरधीत्य तेनाधीतेन गुरोर्महागः मत्यादिशे प्रत्यर्पितवान् ॥ १०० | [ सर्वज्ञेति । सुगतसंज्ञकादुरोः सुगतानां वा गुरोः ] ॥ १०० ॥ महापराधमेवाऽऽह । तदेवमनेन प्रकारेण सुगतादवीत्य तस्य सुगतस्य कुलमे वाऽऽदौ माघातयं जैमिनेरुपज्ञाऽऽद्य ज्ञानं यत्र ‘उपज्ञा ज्ञानमाद्य स्यात्' इत्यमरः । तस्मिञ्शास्त्रेऽभिनिविष्टं चेतो यस्य सोऽहं परमेश्वरं च निरास्थं निरस्तवान् ॥ १ ॥ [ जैमिनीति । पूर्वमीमांसाशास्त्र इत्यर्थः ] ॥ १ ॥ अस्योदाहृतस्य दोषद्वयस्य यथोक्तां निष्कृतिं चिकीर्षहेंऽर्हन्नाश्रयाशं पावकं प्राविक्ष प्रवेशं कृतवानस्मि । आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः’ इत्यमरः । तव पादनिरीक्षणस्य निष्कृतिरूपत्वादेषा निष्कृतिस्तव पादनिरीक्षणेन पुनरुक्तभूता जाता संपन्ना ॥ २ ॥ ननु शाबरभाष्यवदस्मद्भाष्येऽपि त्वया वार्तिकं कर्तव्यं स्थितमिति चेत्तत्राऽऽह ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२८७
दिखावट