पृष्ठम्:श्रीपरात्रिंशिका.pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेतः


न्तराणां महदन्तराल-दिव्यादिव्यादीनामुक्तो- पदेशेन परैकमयत्वात् । तदुक्तं त्रिकत्दृदये

'’नित्यं विसर्गपरमः स्वशक्तौ परमेश्वरः ।
अनुग्रहात्मा स्रष्टा च संहर्ता३९ चानियन्त्रितः’
'

इति । एवम् अमुना क्रमेण सदोदितता, एवं- परमार्थमयत्वात् परमेश्वरस्य चित्तत्त्वस्य यदेव अविभागेन अन्तर्वस्तु स्फुरितं, तदेव पश्यन्ती- भुवि वर्ण-पद-वाक्यविबिभाजयिषया परामृष्टं, मध्यमापदे च भेदेन स्थितं वस्तुपूर्वकं संपन्नं यावत् वैखर्यन्तम् 'अनुत्तरं कथम्' इत्यादि भिन्नमायीय-वर्ण-पद-वाक्यरचनान्तम्। एतदेव तदनुपलक्ष्यं भैरववक्त्रं सृष्टिपरामर्शात्मकम्, अनु-


३९ विसर्गपरम इति तदेकलग्नः, अहमिति स्रष्ट्टरूप: तद्वैपरीत्येन संहर्तृरूपः।


पं० ३ ख० पु० स्वशक्तौ भैरवो विभुरिति पाठः ।

पं० ५ क० ख० पु० सदोदितैव परमेति पाठः ।

पं० ६ घ० पु० यदैव इति पाठः ।

पं० ९ क० घ० पु० भेदेऽवस्थितमिति पाठः ।

पं० १० ङ० पु० भिन्नं मायीयेति पाठः ।