पृष्ठम्:श्रीपरात्रिंशिका.pdf/२३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता ।

भवेदित्युपचारादाक्षान्ता सृष्टिरपूर्वमाहरणं स्वात्मानुप्रवेशात्मस्वरूपं संहाररूपं यस्याम् , एषैव च शिवात्मकबीजप्रसररूपाणां मननत्राणधर्माणां सर्वेषामेव वाच्यवाचकादिरूपवर्णभट्टारकात्मनां मन्त्राणां, शक्त्यात्मकयोनिस्पन्दानां, सर्वासां तद्बीजोद्भूतानां वेदनारूपाणां विद्यानाम् इयं समा सर्वत्रानूनाधिका सर्वेषु तन्त्रेषु तन्त्रणासु च सर्वासु क्रियासु सर्वकालं च सर्वं ददती सिद्धिसंघम् आख्याता, प्रकटाख्यातिरूपतां मायीयामुद्दिश्य भेदो वर्णानां, तथाहि-त एव शुद्धमन्त्ररूपा वर्णाः प्रथमं पञ्चविधविपर्ययशक्त्यादिरूपप्रत्ययात्मकभावसृ[१]ष्टितामेत्य स्वरूपमावृण्वते,


  1. द्विधा हि सृष्टिः - भावसृष्टिर्भूतसृष्टिश्चेति, तत्र प्रत्ययरूपा भावसृष्टिः तन्मात्ररूपा भूतसृष्टिः। तत्रेत्थं भावः

    'एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्याख्यः ।
     गुणवैषम्यविमर्दात्तस्य च भेदास्तु पञ्चाशत् ॥'

    इति भावसृष्टिः। भूतसृष्टिर्यथा

    'अष्टविकल्पो देवस्तैर्यग्योनिश्च पञ्चधा भवति ।
     मानुप्यश्चैकविधः समासतो भौतिकः सर्गः ॥"