पृष्ठम्:श्रीपरात्रिंशिका.pdf/२३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०८
परात्रिंशिका

इत्युच्यते-किंचिच्चलनात्मकत्वात्, स च शिवशक्तिरूपः सामान्यविशेषात्मा, तद्वयाख्यातम् , 'आद्यास्तिथयः बिन्द्ववसानगाः कालयोगेन सोमसूर्यो' तस्यैवं कुलस्यान्तः पृथिव्यादीनि च यावत् ब्रह्मपञ्चकं तावत्तेषां स्वराणामन्तः कथं क्रमात् । अथ च क्रमस्यादनं भक्षणं कालग्रासः तथा कृत्वेति क्रियाविशेषणं च शोभने व्रते भोगे रिक्तत्वे भोगनिवृत्तौ च पूर्णत्वे सुव्रते, आमन्त्रणमपि एतत् एवं व्याख्येयम्, एवममूला-अकारमूला अविद्यमानमूला च अनादित्वात् स क्रमो यस्याः प्रश्लेषेणातद्रूपोऽन्यथारूपोऽपि क्रमो यस्याः तथाप्यमूला अमूलस्य यदातननमातत् ततस्तदेव च क्रमो यस्याः, एषा चाज्ञेया ज्ञातृरूपा, एषैव च ज्ञेया-अन्य-स्याभावात्, अविद्यमानं क्षान्तं तूष्णीमासनमविरतं सृष्ट्यादिरूपत्वेन अस्याम्, आक्षाणामैन्द्रियिकाणामन्ते समीपे प्रागपर्यवसाना या


पं० स० पु० तस्यैवाकुलस्येति पाठः