पृष्ठम्:श्रीपरात्रिंशिका.pdf/२३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता ।

वसाने च बिन्दुं ददती 'अहम्' इत्येषैव भगवती सृष्टिः, तदुक्तं श्रीसोमानन्दपादैर्निजविवृतौ 'अं अ इत्येषैव विकृताविकृतरूपा मातृका' इत्यादि, ते तु 'अ' इत्येतदनुत्तरमाकाराद्याश्च तिथयः, यद्वा बिन्दुरंकारः अकाराद्यास्तिथयस्तदन्तो विसर्ग इत्यपि व्याचक्षते, तदेव संवित्सतत्त्वं 'स्पन्द' इत्युपदिशन्ति, स्पन्दनं च किंचिच्चलनं स्वरूपाच्च, यदि वस्त्वन्तराक्रमणं तच्चलनमेव न किंचित्त्वं, नो चेत् चलनमेव न किंचित् , तस्मात् स्वरूप एव क्रमादिपरिहारेण चमत्कारात्मिका-उच्छलत्ता ऊर्मिरिति मत्स्योदरीति-प्रभृतिशब्दैरागमेषु निदर्शितः ‘स्पन्द'


तनिरावरणधामसु द्वादशसु शून्यमार्गेषु पतिताः संचित्क्रमः - इति प्रकाशचक्रव्याप्तिः । आनन्दचक्रे बैन्धवामृतप्रसरेण धामक्रमः षण्ठस्वरैः सह पोडशकव्याप्त्या वर्णक्रमः, बुद्धिकर्माक्षमनःसु षोडशसु संवित्क्रम इति चानन्दचक्रव्याप्तिः । मूर्तिचक्रे स्वातन्त्र्यघननिराचरणधामसु सप्तदशसु तथा धामक्रमः आदिवर्णाधिष्ठिताकाराद्यक्षरपर्यन्तं सप्तदशधा प्रसृतो वर्णक्रमः । चान्द्र्य एव भूमिका बाह्यात् पराङमुखीभूता अन्तर्विमिमर्शयिषवोऽपि अमया सहानुभूयमानाः सप्तदशैव संबित्क्रमः इति।