पृष्ठम्:श्रीपरात्रिंशिका.pdf/२३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता ।

युञ्जानत्वेन ग्रसमानाः प्रोल्ला[१]ससमयेऽपि रिक्तरूपतया उद्योगावभाससंक्रामविलापनरूपेण


  1. प्रोल्लाससमय इति, आदौ हि निस्तरङ्गजलधिप्रख्येऽनुसरात्मनि परस्मिन् विसर्गे प्रकाशैकघने प्रथममुल्लसनशीलो व्यतिरिक्तविमृश्याभावात चिद्विमर्शपरः स्वात्ममात्रपरामर्शनतत्पराहंपरामर्शः स्फुरति स एव प्रोल्लाससमय इत्युच्यते येनास्य सर्वत्रैव स्वातच्यमुदियात् । अयं भावः - स्वस्वातन्त्र्यमाहात्म्यादेव हि अनुत्तरप्रकाशात्मा परमेश्वरः स्वं स्वरूपं गोपयित्वा प्रमाणादिदशामधिशयानः पृथग्भावजातमाभासयेत्, तद्यथा स एव परः प्रकाशः संकुचितप्रमातृभूमिकावभासनपुरःसरमुद्योगादिकलाचतुष्कमुस्थापयति, तद्यथा उद्योगोऽर्थावविभासयिपा तत्र सक्तेन सदैव बहिर्मुखेन द्वादशशण्ठवर्जमकारादिविसर्गान्ताः कलास्तत्स्वभावतया प्राप्तपरिपूर्णस्वरूपेण प्रमाणात्मना सूर्येण एकैकं भावमीषत्संकुचितेन नीलसुखादिना रूपेण भासयेत् बहिः सृजेत् पूरयेत् तथात्वेनैव कंचित्कालं स्थापयेत् चर्चयेत् स्वात्मसात्कारेण संहरेदित्यर्थः । यः कश्चनार्थक्रियार्थी हि प्रमाता प्रमाणोपारूढमेवार्थजातं प्रथममालोचयेत् अनन्तरमिदमिस्थम् इति विकल्पयेत् तदनु ज्ञातोऽयं मयार्थः इति संतोषाभिमानात् बहीरूपताविलापनेन स्वात्मन्येव विश्रामयेदित्यनुभवसाक्षिकोऽयमर्थः । एवमाभासनादिरूपतामापन्नस्य भावजातस्य प्रमोपारोहानन्तरं स्वेन रूपेणावभासमानस्य पोडशारबुद्धीन्द्रियादिकलाभिः प्राप्तपूर्णनिजरूपस्योच्छूनरूपतापस्या तद्रूपतिरस्कारात्मना विसर्गग्रासेन मन्थरस्य देहादिरूपमेयेन्दोः परिमिते प्रमातरि संजीविन्यमृतकला विसर्जनतत्तरप्रमातृप्रमेयाद्यात्मना स्थूलेन रूपेण समुल्लास इतीदमुक्तं भवति । यत्किचिद्भावजातं तत्तदीपत्तासमासादनपुरःसरमिन्द्रियद्वारोपारोहेण ज्ञेयता-