पृष्ठम्:श्रीपरात्रिंशिका.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
परात्रिंशिका

तत्स्फुटीभूतविभक्तग्राह्यादिरूपसोमसूर्याग्निसृष्टिस्थितिसंहृति इडापिङ्गलासुषुम्नाधर्माधर्मशवलादिकोणत्रितया पारमेश्वरी भैरवी भट्टारिका मुद्रा तद्रूपयोन्याधारतया योनिरिति निर्दिष्टा, तथा च श्रीकुजिकामते खण्डचक्रविचारे अमुमेवार्थं प्रधानतयाधिकृत्यादिष्टम्

'मायोपरिमहामाया त्रिकोणानन्दरूपिणी ।'

इत्यादि, अत एव तथाविधवबीजकुसुमैकघनभावशिवशक्तिसंघट्टः स्वयं स्वात्मनैव पूज्य इत्युपदिष्टम् श्रीत्रिकतन्त्रसारे शिवशक्तिसमापत्त्या शिवशक्तिघनात्मकः ।

शिवशक्तिसमापत्तित्रिकं संपूजयेत्परम् ॥' इति । एवं च घनीभावोऽपि वैखरीरूपे यद्यपि स्फुटीभवति तथापि सर्वसर्वात्मनि परावाग्वपुषि मुख्यतयावतिष्ठते, तत्र परं कण्ठोष्ठस्थानकरणान्यपि सर्वसर्वात्मकमेव, इति विशेषः,

तथाहि अन्तरपि संजल्पेत् पश्येदिति स्फुट