पृष्ठम्:श्रीपरात्रिंशिका.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

र्गयोः' घनता, अबोधस्यामूर्तस्यापि चिन्मात्रस्यापि क्रियाशक्तिरूपतैव, सा चोक्तनीत्या शक्तिषटुक्रमेणैवोपजायते-तेन पञ्च प्रसृताः षड्गुणिताः त्रिंशत् , षड्भिः सह षट्त्रिंशत् भव-न्तीति, तदेवं शिवबीजमेव स्वातत्र्यात् घनीभूततया क्वचिद्वपुषि शाक्तरूपे कुसुमतया तिष्ठत् योनिरित्यभिधीयते, तदेव हि पुष्पं पूवोक्तनयेन ग्राह्यग्रहणग्राहककोणत्रयमयं वस्तुतः प्रसूतिपदं वीजसंमिश्रतयैव भवति-तदैव पुष्परूपत्वात् , अन्यदा तु योग्यतयैव तथाव्यपदेशः, तथा च तत् कुसुममेव त्रिकोणतया योनिरूपं

१ अबोधत्वं स्वातन्त्र्यराहित्येन यदुक्तम् 'मायोपरिमहामाया' तत्र च विज्ञानकेवलिनां स्थितिः, ते च निरुक्त्या विज्ञानं बोधात्मकं केवलं स्वातन्त्र्यविरहितं रूपं, यथा च प्रत्यभिज्ञायाम् शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता । निर्मिता स्वात्मनो भिन्ना भत्रा ते कर्तृतात्ययात् ॥' इति । २ अन्यदेति इदंप्रथायाम् । ३ तथेति योनितया।