पृष्ठम्:श्रीपरात्रिंशिका.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
परात्रिंशिका

घनतापत्त्या योनिरूपतां गृहीत्वा स्वरूपाप्रच्युतं तदेव स्वस्वरूप एव योनिरूपे संक्रामद्विसर्गपदमित्युच्यते, यथोक्तम्

स विसर्गो महादेवि यत्र विश्रान्तिमृच्छति ।
गुरुवक्त्रं तदेवोक्तं शक्तिचक्रं तदुच्यते ॥'

इत्यादि, अकारस्यैव घनता 'कवर्गः' - कण्ठ्यत्वात्, इकारस्य 'चवर्गः' - तालव्यत्वात् , उकारस्य ‘पवर्गः' - औष्ठयत्वात् , ऋकारस्य 'ट-वर्गो'- मूर्धन्यत्वात् , 'लृकारस्य तवर्गो' – दन्त्यत्वात्, 'यशौ' चवर्गस्यान्तः ‘रशौ' टवर्गस्य, 'लसौ' तवर्गस्य, वकारोऽपि 'तपव-

१ यदुक्तम् अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥' इति । तद्यथा अकुहविसर्गाः कण्ठ्याः । इचुयशास्तालव्याः । ऋटुरपा मूर्धन्याः । लृतुलसा दन्त्याः । उपूपध्मानीया ओष्ठयाः। ञमनणङा नासिक्या: । एदैतौ कण्ठतालव्यौ । ओदौतौ कण्ठोष्ठयौ । जिह्वामू-

लीयमेव जिह्वामूल्यम् । अनुसारो नासिक्यः, इति ।