पृष्ठम्:श्रीपरात्रिंशिका.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
परात्रिंशिका

वृत्तिरूपं नास्ति - इत्युक्तनयेनैव स्थितिः, एव मिच्छाज्ञाने अनुत्तरस्वरूपानुप्रवेशेन प्राप्तोपचये पश्चात् परित्यज्य तथाविधोपाधिपरिस्पन्दस त्तामभेदसत्तारोहणचिन्मयपुरुषतत्वसतत्त्ववेद नारूपविन्दुमात्रावशेषेण वपुषा तथानुत्तरपद लीने 'अमिति' तथाहि औकारे एव क्रिया शक्तिपरिस्पन्दः परिसमाप्यते इति - इच्छाज्ञा नयोरत्रैवान्तर्भावात्, त्रिशूलरूपत्वमस्य षडर्ध शास्त्रे निरूपितम्

'............….त्रिशूलेन चतुर्थकम् ।'

इत्य युद्देशेषु, विन्दुः पुनर्वेदनामात्रशेषतैव, सर्व स्य वेदनामात्राविशेषमपि विश्वं यदा स्वात्मन्ये कगमनाय विसृजति स्वात्मनश्च सकाशात् त-

, अनार्थोऽयम् • अन्न प्रकाशमानं यत् स्थिते धामनये सति । उक्तं बिन्दुतया शास्त्रे शिवबिन्दुरसी मतः ॥' इति न्यायात् स्वभावाविशिष्टमपि यदा विश्वं स्वस्मात् स्वस्मिन्नेवैक्य गमनाय विसृजति तदा शक्तिमद्रूपप्राधान्य पूर्णतावेशलक्षणं शांभवं

तत्वमित्युक्तम् ।