पृष्ठम्:श्रीपरात्रिंशिका.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
परात्रिंशिका

योपाधिगतोऽपि ज्ञानमवस्कन्देत् सः, इति चेत् -ज्ञेयस्य स्वात्मनि भासामयेऽन्यथा वा कोऽस्य विशेषो ज्ञानमुखेनोक्तः, इतरेतराश्रयसंप्लवः स्वतो भेदात् इत्याद्यपि सर्वमुच्यमानं ज्ञानमुखमेवापतेत् , तथा च स एव दोषो बहुतरकुसुमपल्लवशतव्यतिभेदोऽपि चानेक इत्युच्यमाने सर्वत्र सूक्ष्मपरमाण्वन्तावयवयोगात् नास्ति कर्म- इत्यापतेत्, न च अनुसंधानं ज्ञानाभावेन सह स्यात् - अनुसंधायाः स्मृतिभेदे तस्याश्च अनुभवोपजीवित्वेऽनुभवाभावात्। वितत्य च विचारितं मयैतत् पदार्थप्रवेशनिर्णयटीकायाम्,- इति किमिह वृथावाग्जालेन प्रकृतोपदेशविघ्नपर्यवसायिना । एवं भगवत्यपरा शोधकभावेन स्थिता परापरापि च यत्र भगवतीनामघोरादीनां शक्तीनां स्थितिः- यद्योगात् विज्ञानाकलसाधकयोगिनो मन्त्रमहेशादिरूपेणाघोराद्याः संपन्नाः ब्राह्म्यादिशक्त्यनुग्रहेणैव


पं. ३ क. ग. पु. कोस्य निवेश इति पाठः ।