पृष्ठम्:श्रीपरात्रिंशिका.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


दृष्टौ, तत्रापि च उत्तरोत्तरं शोध्यशोधकानामपि विगलनम्

'त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ॥"

इति । तदियमेतावती धारा यच्छोधकमपि शोधनमपि शोध्यमेव-इति श्रीषडर्धशास्त्रे एवोक्तम्, एकोत्कर्षः तिसृणामपि चासां युगपत् स्थितिर्भवत्येव, वक्ति ह्यन्यत् विकल्पयंश्च अन्यत् जल्पत्यविकल्पमेव अन्यत्पश्यति, अत्र तु परिपूर्ण एव तावति भगवान् भैरव एव-इत्याद्यनुभवसंप्रदायोपदेशपरिशीलनेन -अस्यार्थस्य स्वसंविन्मयस्यानपलापनीयत्वात् न तत् युगपत् अपि तु ’तथा- सौक्षम्यादलक्षणम्' इति यौगपद्याभिमानः शिरीषकुसुमपल्लवशतव्यतिभेद इव इति चेत्, केयं खलु भाषा- युगपत् इति, समानकालम् - इति चेत् अन्तर्मुखे संविदात्मनि प्रोक्तनयेन कः कालः तस्य ज्ञेयरूपप्राणगमागमादिमयाभासतदभावप्राणत्वात् , ज्ञे-

21