पृष्ठम्:श्रीपरात्रिंशिका.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

नैव भवेत् , सर्वमेव चेदं प्रथमानं स्वतन्त्रप- रिपूर्णप्रथासारभैरवं विना किंचिदेव न-इति स्वसंवित्सिद्धोऽयं तत्त्वक्रमः । श्रुतिरपि जला- त्मिका काठिन्यं विना क-इतिधरापि पूर्विका सलिलेऽस्तु इति कथ्यमानम् अपि किं न छेद- येत् प्रत्युत परिपूर्णसर्वात्मकभैरवभट्टारकात्म- कपरासंवित्परिपोषणायैव स्यात् , सर्वश्चायं परा- पराभट्टारिकादिरूपपश्यन्त्यादिसत्तासमयोद्भ- विष्यदीपत्स्फुटस्फुटतरादितत्त्वभेदानुसारेण प- राभट्टारिकामहसि तदुचितेनैव वपुषा विराजते,

1 श्रुतीति, अयमर्थः - पृथ्वी जलात्मिकाप्यम्तीति मन्तव्यं, कुत्तः? इत्यत आह - काठिन्यं विनेति, अयं भावः - यदि पृथिवी जलात्मिक। न स्यात् तत् स्थितिमेव जह्यादिति काठिन्यं हि जलकृतमेवेति, काठिन्य परस्परसंश्लेषः । २ अहन्तायां हि भेदोऽस्फुट एव, इदन्तायां तु स्फुटतरः तत्त्वभेदः यदुक्कमीश्वरप्रत्यभिज्ञायाम् 'अत्रापरत्वं भावानामनात्मत्वेन भासनात् । परताहन्तयाच्छादारपरापरदशा हि सा । इति । ३ तेजसि परोचितेन । पं० ५ ग. पु. किं नः छेदयेदिति पाठः । . 3