पृष्ठम्:श्रीपरात्रिंशिका.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

'तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत् '

इति शक्तिप्रख्यव्यापिनीसमनात्मकशृङ्गत्रयमुक्तं, तत्रापि उन्मनसोर्ध्वकुण्डलिकापदपरमधा- मसितकमलत्रयरूपतया निरूपितम् , इत्येतत् परमासनं -परापर्यन्तत्वात् इति, तदुपरि च देवीनां स्थितिः इति, तदेतत्परं पश्यन्त्याख्यं ज्ञानशक्तेरेव पर्यन्तधाम नादाख्यरूपमतिक्रमणीयत्वेनैव स्थितं, यथोक्तं शिवदृष्टौ


'अथास्माकं ज्ञानशक्तिर्या सदाशिवरूपता ।
वैयाकरणसाधूनां सा पश्यन्ती परा स्थितिः ॥'

इति ।

'प्रत्यगात्मनि हि बुद्धिः पश्यन्ती रुद्रदेवता ।'

परं सदाशिवज्ञानशक्तावेव अनाश्रितशिवश- क्त्यात्मनि विश्राम्यति, मनोऽहंकारयोः ब्रह्मवि-

१. ईश्वरप्रत्यभिज्ञायां

'तत्रैतन्मातृतामात्रस्थिती रुद्रोऽधिदैवतम् ।'

भिन्न प्रमेयग्रसरे ब्रह्मविष्णू उदाहृतौ ॥'

इति । अत्र विवेकेच्छुभिस्तनालोक एवावधार्यम् ।


२० २ ख. पु. शक्तिमुख्येति, समनान्तकेति च मूलपाठोऽस्ति ।

पं०३ ख. पु. औन्मनसेति पाठः ।

17