पृष्ठम्:श्रीपरात्रिंशिका.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
परात्रिंशिका


रिवृत्तिः- तदन्तस्यापि आसनपक्षीकृतत्वात् । तथाहि

'ईश्वरं च महामेतं प्रहसन्तमचेतनम् ।'

इत्यनेन सदाशिवान्तमासनं नादान्तपक्षनिविष्टं श्रीपूर्वशास्त्रोपसंहृतम् ,

' इत्येतत्सर्वमासनम्'

इत्युक्त्वा

१दिव्यतनुसंजीवनाथ ह्ययं क्रमः, यथान्यत्र
'महानेतं न्यसेत्पश्चात्प्रहसन्तमचेतनम् । रक्तवर्णं सुतेजस्कं नेत्रत्रयविभूपितम् ।।'
तद्यथा--आधारशक्तिमूले मूलं, कन्द आसारमूलकम् , लम्बिकान्ते कला- तत्त्वान्तो दण्डः, मायात्मको ग्रन्थिः, चतुषिककारमा शुद्धविद्यापद्म, तन्नैव सदाशिवभट्टारकः, स एव महाप्रेतः प्रकर्षण लीनत्वात् बोधात्प्राधान्येन वेद्यात्मकदेहक्षयान्नादामर्शात्मकत्वाच्चेति, तन्नाभ्युस्थितं तन्मूर्धरन्ध्रनयनि- र्गतं नादान्तवर्तिशक्तिव्यापिनीसमनारूपपरान्नयं द्विपदान्तं, तदुपरि शुद्ध- पद्मनयमौन्मनसम्, एतस्मिन् विश्वमये भेदे आसनीकृते अधिष्ठातृतया व्यापकभावेन आधेयभूतां यथाभिमत्तां देवता कल्पयित्वा पूजयेदिति । अत्रान्तरश्लोकाः
'द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्फुरत् ।

देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् ॥

मूलाधाराविषट्कान्तब्योमानापूरणात्मिका ।

खेचरीयं खसंचारस्थितिभ्यां खामृताशनात् ॥'

इति । इत्यन्तर्यागः।