नामपि
'फे धरातत्त्वमुद्दिष्टं चादि-आन्तेऽनुपूर्वशः । |
इत्यादिना तत्त्वयोजना । श्रीमदपराभट्टा- रिकाभिप्रायेण च
'सार्धेनाण्डद्वयं व्याप्तमेकैकेन पृथग्द्वयम् । |
इत्यादिना फटुकारे पार्थिवप्राकृताण्डद्वयम् , हुँकारे मायीयं, ह्रीकारे शाक्तमण्डं च इति त- त्वनिवेशः। श्रीपराभट्टारिकाव्याप्तिनिरूपणे च
'सार्णेन त्रितयं व्याप्तं त्रिशूलेन चतुर्थकम् । |
१ अन्न पिण्डार्थः, - इच्छाशक्ति ज्ञानशक्ति-क्रियाशक्तित्रितयं वैप-
रीत्येन बोद्धव्यमित्यर्थः ।
२ एतत्कथने पुनरयमभिप्रायः
'एकेन वपुपा शुद्धौ तत्रैवान्यप्रकारताम् ।
अन्तर्भाच्याचरेच्छुद्धिमनुसन्धानवान् गुरुः॥'
अशक्ती क्रमान्तरोऽप्यस्तीत्याह
'अनन्तभावशक्तौ तु सूक्ष्मे सूक्ष्मं विशोधितम् ।
तद्धि शुद्धं बीजभावात्सूते नोत्तरसन्ततिम् ।।'
इति । एतच्च सर्वे त्रिकसारे प्रसिद्धम् ।
पं. ५ क. पु. साधेनातो द्वयमिति पाठः ।
पं. ८ क. पु. पार्थिवप्राकृती ततो दूयमिति, ग. पु. प्राकृताण्डतो
द्वयम् इति पाठः।
पं० ९क० पु. शाक्तमन्त्रमिति पाठः ।