पृष्ठम्:श्रीपरात्रिंशिका.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

'निष्कले पदमेकार्ण व्यर्णेकार्णद्वयं द्वये ।'

इति परोपराभट्टारिकानुसारेण, ओंकारं शिवतत्वम् अघोरे इत्यत्र शक्तितत्त्वम् इत्यादिक्रमेण पार्थिवादितत्त्वनिरूपणा योजिता । पुनरपि च तत्रैव श्री-विद्यातत्त्वानुसारेण फकारादीनाम- भिन्नयोनिमातृकानिवेशावाप्ततत्त्वान्तरस्थिती-


यथोक्तमाचार्याभिनवगुप्तपादैः

'ययेदं शिवादिधरण्यन्तमविकल्पसंविन्मानरूपतया बिभर्ति च पश्यति च भासयति च परमेश्वरः सास्य पराशक्तिः, यया दर्पण- हस्स्यादिवत् भेदाभेदाभ्यां सा परापरा शक्तिः, यया परस्पर- विविक्ततात्मना भेदेनैव सा अपरा शक्तिः ।' इति विद्यानयनिरूपणं पारमेश्वरशास्त्रेषु'

१ श्रीमन्मालिनीविजये

'मायां तु मार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः ।

क्रियास्वनुक्तमन्त्रासु योजयेदपरां बुधः ॥

विद्यादिसकलान्तं च तहदेव परापराम् ।

योजयेन्नेश्वरादूर्व नियत्यादिकमष्टकम् ॥

न चापि सकलादूर्ध्वमङ्गपर्दू विचक्षणः ।

निष्कले परया कार्य यत्किचिद्विधिचोदितम् ॥

इति । अत्र सूक्ष्मतरबोधवतां मूलार्थः सुबोध एवेति न निर्णीतः, अन्येषां तु युक्तिकथनमपि पिष्टपेषणतुल्यमकिंचित्करमित्यर्थः ।


पं० २ ख.पु. ऊंकारमिति पाठः ।