पृष्ठम्:श्रीपरात्रिंशिका.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

अवर्गान्तं पार्थिवादीनां शिवान्तानां तत्वानां निवेशः उक्तः

'आद्यधारिकया व्याप्तं तत्रैकं तत्त्वमिष्यते ।
एकमेकं पृथक् क्षार्ण पदार्णमनुषु स्मरेत् ॥'

इत्यादिना, तत्रैव च पुनर्भिन्नयोनिमालिनीभ- द्वारिकानुसारेण फकारादीनामभिन्नयोनिमातृ- कानिवेशावाप्ततत्त्वान्तरस्थितीनामपि

१ धारिकेति,

'मतं चैतन्महेशस्य श्रीपूर्व यदभाषत ।
धारिकाप्यायिनी बोड्री पवित्री चावकाशदा।।'

इति ।

२ मालिनीति । यदुक्तं श्रीमजयद्रथराजानकैः
..........भिन्नयोनिस्तु मालिनी ।'

इत्यस्या व्याख्यानावसरे, भिन्ना स्वरैर्भेदिता योनिः कादिलक्षणा यस्याः । तत्र शक्तिवाचको मालिनीमन्त्रः, शक्तिमद्वाचकस्तु मातृकामन्त्रः । तत्र मातृका प्रसिद्धैव । मालिनी यथा 'न ऋ ऋ. ल ल थ च ध ई ण उ ऊ ब क ख ग घ ङइअव भय ड ढ झ ञ जर ट प छ ल आ स आह पक्ष म श अंत ए ऐ ओ औ द फ' इति । त्रिकहृदयेऽपि


पं. ३ क पु० आधारिकतया व्याप्तमिति पाठः ।

पं० ४ ख• पु० पृथक् वर्ण इति पाठः ।

५० ४ क. पु. यदार्ण मनुषु इति पाठः ।

16