पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चक्रमार्गे अध्वर्युर्हुतवान् तथा उत्तरशकटसंबन्ध्युत्तरचक्रमार्गे प्रतिप्रस्थाता जुहुयादिति सूत्रार्थः । वैष्णवी त्रिष्टुब् वसिष्ठदृष्टा । हे रोदसी द्यावापृथिव्यौ, युवामीदृश्यौ भूतं भवतम् । भवतेर्लुङि मध्यमद्विवचने रूपम् । अडभावश्छान्दसः । किंभूते युवाम् । इरावती इरावत्यौ अन्नवत्यौ सस्यवत्यौ । धेनुमती बहुधेनुयुक्ते । सुयवसिनी सुष्ठु यवसानि विद्यन्ते ययोस्ते सुयवसिनी । यवसशब्देनात्राभ्यवहार्याणि वस्तूनि । तथा मनवे दशस्या । मनुते जानातीति मनुर्ज्ञानवान्यजमानः तस्मै दशस्या दात्र्यौ यज्ञसाधनानाम् । 'दाशृ दाने' दाशतस्ते दशस्या । असुन्प्रत्यये उपधाह्रस्वः ओविभक्तेर्यादेशश्च । एवं द्यावापृथिव्यौ संप्रार्थ्य विष्णुमाह । हे विष्णो, एते रोदसी त्वं व्यस्कभ्नाः विभज्य स्तम्भितवानसि । किंच पृथिवीं मयूखैः स्वतेजोरूपैर्नानाजीवैर्वराहाद्यनेकावतारैर्वा अभितो दाधर्थ दधर्थ सर्वतो धारितवानसि । 'तुजादीनां दीर्घोऽभ्यासस्य' (पा० । ६ । १ । ७) इत्यभ्यासदीर्घः । स्वाहा तस्मै विष्णवे हविर्दत्तम् ॥ १६ ॥

सप्तदशी।
दे॒व॒श्रुतौ॑ दे॒वेष्वा घो॑षतं॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्वरतम् ।
स्वं गो॒ष्ठमा व॑दतं देवी दुर्ये॒ आयु॒र्मा निर्वा॑दिष्टं प्र॒जां मा निर्वा॑दिष्ट॒मत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्याः ।। १७ ।।
उ० पत्नी अक्षधुरावनक्ति । देवश्रुतौ । देवा एते धुरौ शृण्वन्ति इति देवश्रुतौ । ये युवां देवश्रुतौ ते देवेषु आघोषतम् । 'घुषिर् शब्दे' । आशब्दयतम् । वाचयति । प्राचीप्रेतम् । हे हविर्धाने प्राची प्रागञ्चने, 'इण् गतौ' । प्रइतं प्रेतं प्रगच्छतम् । अध्वरं कल्पयन्ती यज्ञं समर्थं कुर्वाणे । किंच ऊर्ध्वं यज्ञं नयतम् । ऊर्ध्वं स्वर्गं प्रति यज्ञं नयतम् । मा जिह्वरतम् । 'ह्वल चलने' । मा चलनं कुरुतम् । अचलितप्रतिष्ठिते युवां भवतम् । शब्दं कुर्वत्यनसि वाचयति । स्वं गोष्ठम् । हे हविर्धाने, स्वमात्मीयं गोष्ठं स्थानम् । आवदतं उच्चारयतम् । हे देवि दानादिगुणयुक्ते, हे दुर्ये गृहभूते । आमन्त्रितद्विवचनान्ते द्वे पदे । किंच आयुर्मा निर्वादिष्टम् । निरुपसर्गः कुत्सायाम् । निकृष्टमल्पं पशुधनादिरहितमायुर्मा निर्वादिष्टं मा उच्चारयतम्। प्रजा मानिर्वादिष्टम् । प्रजां निकृष्टाम् निरंशां मा उच्चारयतम् । युवाभ्यामुच्चारितं तथैव स्यादित्यभिप्रायः । नस्यस्थे करोति । अत्र रमेथाम् अस्मिन् प्रदेशे रमेथां रतिं कुरुतम् । वर्ष्मन् 'न ङिसंबुद्ध्योः' इति नलोपाभावः। 'सुपांसुलुक्' इति सप्तम्या लोपः। पृथिव्याः ॥ १७ ॥
म० 'दक्षिणया द्वारानीता पत्नी पाणिभ्याᳪ शेषं प्रतिगृह्याक्षधुरावनक्ति पराग्देवश्रुताविति' (का० ८ । ३ । ३२) प्रतिप्रस्थात्रा समानीता पत्नी होमशेषेणाज्येनाक्षस्योभावग्रभागावञ्ज्यादिति सूत्रार्थः । अक्षधुरौ देवते । देवेषु श्रूयते देवश्रुतौ । शृणोतेः क्विप्तुगागमश्च । हे देवश्रुतौ देवसभायां प्रसिद्धे अक्षधुरौ अक्षाग्रभागौ, युवां यजमानोऽयं यक्ष्यतीति देवेषु आघोषतम् उच्चध्वनिना कथयतम् । 'घुषिर् शब्दे' । 'प्राची प्रेतमिति वाचयतीति' (का० ८ । ४ । ३) हविर्धानाख्ये यदा प्रवर्तेते तदा यजमानं वाचयेदिति सूत्रार्थः । त्रयाणां यजुषां हविर्धाने देवते । हे उभे शकटे, युवां प्राची प्राङ्मुखे प्रेतं प्रकर्षेण गच्छतम् । प्रागञ्चतस्ते प्राची। किंभूते युवाम् । अध्वरं कल्पयन्ती इदं कर्म समर्थं कुर्वाणे । किंच यज्ञमिममूर्ध्वं नयतं उपरिवर्तिदेवान्प्रति प्रापयतम् । मा जिह्वरतं मा कुटिले भवतम् । 'ह्वृ कौटिल्ये' णिजन्तस्य लुङि रूपम् । यद्वा 'ह्वल चलने' मा चलतम् । 'स्वं गोष्ठमिति च खर्जतीति' (का० ८ । ४ । ४) । प्रवर्त्यमानयोः शकटयोरक्षे खर्जति ध्वनिं कुर्वति सति स्वं गोष्ठमिति यजमानं वाचयेदिति सूत्रार्थः। दुर्यशब्दो गृहवाची । 'गृहा वै दुर्याः' (३ । ५। ३ । १८) इति श्रुतेः । तेन गृहसदृशे शकटे लक्ष्यते । हे देवि दुर्ये गृहसदृशशटकद्वयरूपे देवते, स्वं गोष्ठं स्वकीयं गोस्थानमावदतं सर्वतः कथयतम् । योऽयमक्षशब्दस्तेन यजमानस्य गृहं बहूनां गवां यथा स्थानं भवति तथा कथयतमित्यर्थः । युवाभ्यामुञ्चारितं तथैव स्यादिति भावः । किंच आयुर्मा निर्वादिष्टं यजमानस्य यावदायुरस्ति तावत्सर्वं मा निराकार्ष्टम् । वदतेर्लुङि मध्यमद्विवचने रूपम् । यद्वा निकृष्टं पशुधनादिरहितं मा उच्चारयतम् । प्रजां मा निर्वादिष्टं यजमानस्य प्रजां पुत्रादिरूपां मा निराकार्ष्टम् । अनेनाक्षशब्देनायुःप्रजयोर्निराकरणं मा भूदिति भावः । उभयबद्धो योऽक्षः स दुष्टवाक् वरुणदेवरूपः । तदाह श्रुतिः 'वरुणो वा एष दुर्वागुभयतोबद्धो यदक्षः' - (३ । ५ । ३ । १८) इति । तस्माच्छापरूपदुर्वाक्यपरिहारायाशीर्वादरूपं सुवाक्यमनेन मन्त्रेण प्रार्थ्यते । 'पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेषु मत्या वा नभ्यस्थे अभिमन्त्रयतेऽत्र रमेथामिति' (का० ८ । ४ । ५)। वेदिनिकटस्थापिते उभे शकटे अमिमन्त्रयेदिति सूत्रार्थः। हे शकटे, पृथिव्याः वर्ष्मन् वर्ष्मणि भूमेः शरीरभूतेऽत्रास्मिन्देवयजने युवां रमेथां क्रीडां कुरुतं वर्ष्मणि स्तीर्णे वा । 'सुपां सुलुक्' (पा. ७।१।३९ )। इति ङेर्लोपे 'न ङिसंबुद्ध्योः' (पा० ८ । २ । ८) इति नलोपाभावः । देवयजनस्य भूमेः शरीरत्वं तित्तिरिणोक्तम् 'वर्त्म ह्येतत्पृथिव्या यद्देवयजनम्' इति ॥ १७ ॥

अष्टादशी।
विष्णो॒र्नुकं॑ वी॒र्या॒णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजा॑ᳪसि ।
यो अस्क॑भाय॒दुत्त॑रᳪ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्ण॑वे त्वा ।। १८ ।।