पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सोम, त्वं क्रयपथमागतः सन्नास्माकोऽसि । शुक्रः शुक्लसंज्ञः ते तव ग्रह्यः । ग्रह एव ग्रह्यः । शुक्रपदमैन्द्रवायवादिग्रहाणामुपलक्षणम् । शुक्रादयः सर्वे तव ग्रहा इत्यर्थः । विचितः ।। विचिन्वन्तीति विचितः विवेकेन चयनस्य कर्तारः त्वां विचिन्वन्तु विविक्तं कुर्वन्तु । सारासारविवेकं कृत्वा सारभूतं समूहयन्त्वित्यर्थः ॥ २४ ॥

पञ्चविंशी।
अ॒भि त्यं दे॒वᳪ स॑वि॒तार॑मो॒ण्यो॒: क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वᳪ रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम् । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑: कृ॒पा स्व॑: । प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑ ऽनु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि ।। २५ ।।
उ० सोमं मिमीते । अभि त्यं देवम् । सावित्र्यत्यष्टिः ।। अभ्यर्चामि अभिपूजयामि । त्यं तम् । देवं दानादिगुणयुक्तं सवितारम् । ओण्योः द्यावापृथिव्योरन्तरा वर्तमानम् । कविक्रतुं मेधाविकर्माणम् । सत्यसवं अवितथप्रसवम् । रत्नधाम् रमणीयानां धनानां दातारम् । अभिरनर्थकः । प्रियम् सर्वजनानां प्रियम् । मतिं बुद्धिं व्याप्यावस्थितम् । मतीनां हि सविताधिष्ठात्री देवता । कविं क्रान्तदर्शनम् । किंच ऊर्ध्वा यस्याऽमतिः भा अदिद्युतत् सवीमनि । यस्य सवितुः ऊर्ध्वा गमनाभिमुखी अमतिः आत्ममयी मतिः अनन्यभूता । कतरा भा दीप्तिः अदिद्युतत् द्योतयते सवीमनि प्रसवे पूर्णे हि दातव्ये । स सविता हिरण्यपाणिः सुवर्णपाणिः अमिमीत ममीते सोमं परिच्छिनत्ति । सुक्रतुः साधुकर्मा शोभनयज्ञो वा कृपा कल्पनया सोमस्य कल्पना । स्वः आदित्यः सु अरणः । अन्तान् संगृह्योष्णीषेण बध्नाति । प्रजाभ्यस्त्वाम् । बध्नामीति शेषः । उत्पत्तये स्थितये च प्रजानां हे सोम, त्वां बध्नामि । अङ्गुल्या मध्ये विवृणोति । प्रजास्त्वानुप्राणन्तु। हे सोम, त्वां प्राणन्तमुच्छ्वसन्तम् । प्रजा अनुप्राणन्तु उच्छ्वसन्तु । त्वं च प्रजाः उच्छ्वसतीः अनुप्राणिहि अनूच्छ्वसिहि । 'तमयतीति वा एनमेतत्समायच्छन्नं प्राणमिव करोति तस्येतदतएव मध्यतः प्राणमुत्सृजति तं ततः प्राणन्तं प्रजा अनुप्राणन्ति' इत्यादि ब्राह्मणम् ॥ २५ ॥
म० 'सोमोपनहनं द्विगुणं चतुर्गुणं वा स्तृणाति प्राग्दशमुदग्वा तस्मिन्सोमं मिमीते दशकृत्वोऽभित्यमितीति' (का० ७ । ७ । १२-१३)। सावित्र्यष्टिः । त्यन्तं सवितारं देवमभ्यर्चामि सर्वतः पूजयामि । किंभूतं देवम् । ओण्योः द्यावापृथिव्योरन्तरा वर्तमानमिति शेषः । ओण्योरिति द्यावापृथिवीनामसु पठितम् । तथा कविक्रतुं कविः क्रतुः यस्य तं मेधाविकर्माणम् । सत्यसवं सत्यः सवो यस्य अवितथप्रेरणम् । तथा रत्नधां रत्नानि दधातीति रत्नधास्तं रत्नानां धारकं पोषकं दातारं वा अभिप्रियं सर्वतः प्रीतिविषयम् । मतिं मन्यत इति मतिस्तं मननयोग्यम् । कविं क्रान्तदर्शनम् । किंच यस्य सवितुर्भा दीप्तिः अमतिः केनापि मातुमशक्या सती ऊर्ध्वा गगनाभिमुखी सवीमन्यदिद्युतत् सवः प्रसवः प्रवृत्तिर्नक्षत्रादीनां यस्मिन् स सवीमा तस्मिन् गगनप्रदेशे सर्वाणि वस्तूनि द्योतयन्ते । यद्वायमर्थः । यस्यामतिरात्ममयी भा ऊर्ध्वा गगने सर्वमदिद्युतत् । अमाशब्द आत्मवचनः । आत्ममयी ततिर्मतिर्वा अमतिः । तन्यत | इति ततिः दीप्तिः । मतिरपि प्रकाशरूपत्वाद्दीप्तिः । अमाततिशब्दस्य वा अमतिभावः । सवितृभाविशेषणम् । आत्मप्रकाशमयी ततिर्मतिर्वा यस्य भाः अदिद्युतत् । किंनिमित्तम् । सवीमनि अनुज्ञानिमित्तं सर्वान् कर्माण्यनुज्ञातुमित्यर्थः । 'षु प्रसवैश्वर्ययोः' 'वृस्तृस्तुभ्य () इमनिच्' इतीमनिच् । गुणावादेशौ । सवीमा प्रसवोऽनुज्ञेत्यभिधानम् । स स्वरादित्यः । कृपा कल्पनं कृप् तया कृपा कल्पनया अमिमीत सोममिति शेषः । एतावान्सोम इति तदीयं परिमाणं निश्चितवानित्यर्थः । किंभूतः स्वः । हिरण्यपाणिः हिरण्यं पाणौ यस्य सौवर्णाभरणयुक्तहस्तः । सुक्रतुः साधुसंकल्पः । | 'अन्तान् संगृह्योष्णीषेण बध्नाति प्रजाभ्यस्त्वेतीति' (का. ७ । ७ । २०) । हे सोम, प्रजाभ्यः प्रजानामुपकाराय त्वा त्वां बध्नामीति शेषः । 'अङ्गुल्या मध्ये विवृणोति प्रजास्त्वानुप्राणन्त्वितीति' (का० ७ । ७ । २१) । उष्णीषेण बद्धस्य | सोमदेवस्य श्वासरोधो मा भूदिति विवरं कुर्यादिति सूत्रार्थः। | हे सोम, प्रजास्त्वामनुप्राणन्तु श्वासं कुर्वन्तं त्वामनुसृत्य सर्वाः प्रजाः श्वासं कुर्वन्तु जीवन्तु । तथा हे सोम, प्रजा अनु श्वासं कुर्वतीः प्रजा अनुसृत्य प्राणिहि श्वासं कुरु । प्रजानां तव च कदाचित् श्वासरोधो मा भूत् परस्परमनुसृत्य जीवनं भवत्वित्यभिप्रायेण विवरकरणमित्यर्थः ॥२५॥

षड्रिंशी।
शु॒क्रं त्वा॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न । स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॑ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॑: पर॒मेण॑ क्रीयसे सहस्रपो॒षं पु॑षेयम् ।। २६ ।।
उ० हिरण्यमालभ्य वाचयति । शुक्रं त्वा । हे सोम, शुक्रमक्लिष्टकर्माणं त्वां शुक्रेण हिरण्येन क्रीणामि । एवं सर्वमपि व्याख्येयम् । सोमविक्रयिणं हिरण्येनाभिकम्पयति। सग्मे ते गौः गौरिति विपरिणामः । सह गवा वर्तत इति सग्मो यजमानः । तव संबन्धिनी या गौः सा यजमाने वर्तत इति सोमक्रयिणं निराशं करोति । यजमानसहितं निदधाति । अस्मे ते। हे सोमक्रयिन् , अस्मासु तव संबन्धीनि