पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशी
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।त्वं य॒ज्ञेष्वीड्य॑: । रास्वेय॑त्सो॒मा भूयो॑ भर दे॒वो न॑: सवि॒ता वसो॑र्दा॒ता वस्व॑दात् ।। १६ ।।
उ० अव्रत्यं व्याहृत्य जपति । त्वमग्ने । आग्नेयी गायत्री। हे अग्ने, त्वं व्रतस्य पालयिता भवसि । देव आ मर्त्येषु आ । आकारौ समुच्चयार्थीयौ । देव आ त्वं च मर्त्येषु मनुष्येषु च व्रतपा इति शेषः । त्वं च यज्ञेष्वीड्यः । सत्कारपूर्वो व्यापारोऽध्येषणा । ईडिरध्येषणकर्मा वा पूजाकर्मा वा । अध्येषितव्यः याचितव्यः । त्वमतो व्रतं पाहीति शेषः । लब्धमालभ्य वाचयति । रास्वेयत् । सोम उच्यते । रास्व । 'रा दाने' देहि । इयदिति लब्धद्रव्यपरिमाणवचनम् । हे सोम । किंच आभूयो भर। 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारश्छान्दसः। आहर भूयो बहुतरम् । किंच 'देवः सविता नः अस्मभ्यं वसोर्दाता धनस्य दाता वस्वदात् धनमदाद्दत्तवान् पूर्वमेवेत्यभिप्रायः ॥ १६ ॥
म० त्वमग्न इत्याह क्रुद्ध्वाव्रत्यं वा व्याहृत्येति' (का० ७ । ५।१-२)। दीक्षितो यदा क्रुध्यति व्रतविरुद्धं वा ब्रूते तदा त्वमग्न इत्यृचं जपेत् । गायत्र्याग्नेयी वत्सदृष्टा । व्यूहेनाक्षरपूरणम् । हे अग्ने, देवो द्योतनात्मकः त्वमा मर्त्येषु मनुष्यपर्यन्तेषु सर्वप्राणिषु व्रतपा असि व्रतस्य कर्मणः पालको भवसि । तथा आ समन्ताद्यज्ञेषु त्वमीड्योऽसि । 'ईडिरध्येषणकर्मा च' इति यास्कः। याचितव्यः पूजयितव्यो वा भवसि । अतः पाहीति शेषः । यद्वा आकारद्वयं समुच्चयार्थम् । देवे इति सप्तम्यन्तं पदम् । हे अग्ने, त्वं देवे आ देवेषु च मर्त्येषु आ मनुष्येषु च व्रतपा असीति । शेषं पूर्ववत् । 'लब्धमालम्भ्य वाचयति रास्वेयदिति' (का० ७ । ५ । १६) । क्रतौ प्राप्तं धनं स्पृष्ट्वा मन्त्रं पठेत् । रास्व । सोमदेवत्यं यजुः । हे सोम, इयद्रास्व एतावद्धनं देहि । भूयः पुनरपि आभर धनम् आहर । 'हृग्रहोः-' (पा० ८।२ । ३२) इति भकारः । यतो वसोर्धनस्य दाता सविता देवो नोऽस्मभ्यं वसु अदात्पूर्वमपि धनं दत्तवान् ॥ १६॥

सप्तदशी।
ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राजं॑ गच्छ । जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे ।। १७ ।।
उ० एघा ते । अनुष्टुभौ । पूर्वार्धर्चो हिरण्यदेवत्यः उत्तरो वाग्देवत्यः विनियोगो ध्रौवाज्ये । आज्यं जुह्वां चतुः क्षिप्त्वा तत्र हिरण्यं निदधाति । आज्यमुच्यते । एषा हिरण्यलक्षणा ते तव हे शुक्राज्य तनूः शरीरम् । 'समानजन्म वै पयश्च हिरण्यं चोभयᳪ ह्यग्निरेतसम्' इति श्रुतिः । एतच्च हिरण्यलक्षणं वर्चस्तेजः तया तन्वा संभव एकीभव । एकीभूय च भ्राजं सोमं गच्छ । जुहोति जूरसि 'जीव प्राणधारणे' । अस्य क्विबन्तस्यापि डूप्रत्यये जूरिति भवति । या त्वं जीवनमसि । 'धिया धिया ह्येतया मनुष्या जुजूषन्ति' इति श्रुतिः। अथवा जवत इति जूः । 'एतᳪह्याकाशमनुजवते' इति श्रुतेः । या च त्वं धृता धारिता मनसा। 'जुषी प्रीतिसेवनयोः' । अभिरुचिता च । विष्णवे विष्णोः सोमस्य ॥ १७ ॥
म०. 'शालाद्वाराण्यपिधाय ध्रौवं जुह्वां चतुर्विगृह्णाति बर्हिस्तृणेन हिरण्यं बद्ध्वावदधात्येषा त इतीति' (का० ७ । ६ । ७-८)। ध्रुवास्थमाज्यं जुह्वां चतुर्ग्रहीत्वा तत्राज्ये दर्भतृणबद्धं स्वर्णं क्षिपेदिति सूत्रार्थः । एषा ते । हिरण्याज्यदैवतम् । हे शुक्र शुक्ल दीप्यमानाग्ने, ते तव एषा तनूः दृश्यमानमाज्यं शरीरम् । एतत् आज्ये प्रक्षिप्यमाणं हिरण्यं ते वर्चः त्वदीयं तेजः । तया आज्यरूपया तन्वा संभव एकीभव । ततो भ्राजं गच्छ । 'भ्राज दीप्तौ' हिरण्यगतां दीप्तिं प्राप्नुहि । एतन्मन्त्रपाठेनाग्नेः सतेजस्त्वं सतनुत्वं च संपद्यते । तदुक्तं तित्तिरिणा 'सतेजसमेवैनं सतनुं करोति' इति । यद्वायमर्थः । हे शुक्र आज्य, एषा हिरण्यलक्षणा ते तनूः एतत्ते वर्चश्च । 'समानजन्म वै पयश्च हिरण्यं चोभयं ह्यग्निरेतसम्' ( ३ । २।४। ८) इति श्रुतेः । तया हिरण्यलक्षणया तन्वा संभव एकीभूय भ्राजं सोमं गच्छ । भ्राजतेऽसौ भ्राट् तम् । 'सोमो वै भ्राट्' ( ३ । २ । ४ । ९) इति श्रुतेः । ‘जूरसीति जुहोतीति' (का० ७ । ६ । ९) । वाग्दैवतम् । हे वाक् , त्वं जूरसि वेगयुक्तासि । यद्वा ‘जीव प्राणधारणे' । जीवयतीति जूः । डूप्रत्ययः । किंभूता त्वम् । मनसा धृता नियमिता । तथा विष्णवे जुष्टा । यज्ञो वै विष्णुः । यज्ञार्थं प्रीतियुक्ता । यद्वा षष्ठ्यर्थे चतुर्थी । यज्ञस्य रुचिता ॥ १७ ॥

अष्टादशी।
तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो॒ य॒न्त्रम॑शीय॒ स्वाहा॑ । शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ।। १८ ।।
उ० तस्यास्ते तव सत्यसवसः अवितथाभ्यनुज्ञायाः। प्रसवे अभ्यनुज्ञायां वर्तमानाः । तन्वो यन्त्रम् अशीय शरीरस्य यमनं दार्ढ्यम् अशीय व्याप्नुयाम् आ यज्ञसमाप्तेः । हिरण्यमुद्धरति । शुक्रमसि अग्ने रेतोसि । चन्द्रमसि । 'चदि आह्लादने' । 'अमृतमसि' अमरणधर्मासि । वैश्वदेवमसि सर्वदेवत्यमसि इति ॥ १८ ॥
म० सत्यं सवो यस्याः सा सत्यसवाः तस्याः सत्यसवसोऽवितथाभ्यनुज्ञायाः। तस्यास्ते तथाविधायास्तव वाचः प्रसवेऽनुज्ञायां वर्तमानोऽहं तन्वः शरीरस्य यन्त्रं नियमनं दार्ढ्य