पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अतो मे मह्यं शर्म शरणं यच्छ देहि । स्वकीयत्वेन स्वीकुर्वित्यर्थः । ते तुभ्यं कृष्णाजिनाय नमोस्तु । मा मां यजमानं मा हिंसीः मा जहि ॥ ९॥
 
दशमी।
ऊर्ग॑स्याङ्गिर॒स्यूर्ण॑म्म्रदा॒ ऊर्जं॒ मयि॑ धेहि ।
सोम॑स्य नी॒विर॑सि॒ विष्णो॒: शर्मा॑सि॒ शर्म॒ यज॑मानस्येन्द्र॑स्य॒ योनि॑रसि सु॑स॒स्याः कृ॒षीस्कृ॑धि ।
उच्छ्र॑यस्व वनस्पत ऊ॒र्ध्वो मा॑ पा॒ह्यᳪह॑स॒ आस्य य॒ज्ञस्यो॒दृच॑: ।। १० ।।
उ० मेखलां बध्नीते। ऊर्गसि।अङ्गिरसामार्षम् । अस्मिन्यजुषि उर्गसि अन्नं भवसि । आङ्गिरसी अङ्गिरोभिर्दृष्टा । ऊर्णम्रदाः ऊर्णेव मृद्वी । यतस्त्वमधस्तनैर्गुणैर्युक्तासि अत ऊर्जमन्नं मयि धेहि स्थापय । नीवीं कुरुते । सोमस्य नीविरसि । 'पितृदेवत्या वै नीविः' इत्यदीक्षितस्योक्तम् । इह तु सोमयागार्था नीविः सोमेन व्यपदिश्यते । शिरःप्रोर्णुते । विष्णोः शर्मासि । 'उभयं वा एषोऽत्र भवति यो दीक्षते विष्णुश्च यजमानश्च' इत्यादि निदानम् । विष्णोर्दीक्षितस्य शरणं भवसि । शरणं च यजमानस्य । कृष्णविषाणां सिचि बध्नीते । इन्द्रस्य योनिः । 'देवाश्च वा असुराश्च' इत्यादि निदानम् यथा इन्द्रस्य योनिर्जन्मस्थानं पूर्वं त्वमसि एवमिदानीं यजमानस्येति दर्शनार्थोर्थवादः। भूमौ लिखति । सुसस्याः कृषीस्कृधि । कल्याणधान्याः कृषीः कृधि जनानां कुरु । दण्डमुच्छ्रयति । उच्छ्रयस्व ऊर्ध्वो भव । हे वनस्पते, ऊर्ध्वो भूत्वा मां पाहि गोपाय । अᳪहसः पापात् । कियन्तं कालम् । आस्य यज्ञस्योदृचः आ अस्य यज्ञस्य समाप्तेः ॥ १० ॥
म० 'मेखलां बध्नीते वेणिं त्रिवृतᳪ शणमुञ्जमिश्रामन्तरां वासस ऊर्गसीति' ( का० ७ । ३ । २६)। अङ्गिरोभिर्दृष्टं मैखलं यजुः । हे मेखले, त्वमाङ्गिरसी अङ्गिरोनामकानामृषीणां संबन्धिनी ऊर्क् अन्नरसरूपासि । किंभूता । ऊर्णम्रदाः ऊर्णेव म्रदीयसी कम्बलवन्मृदुरसि । तथाविधा त्वमूर्जमन्नरसं मयि धेहि स्थापय । अङ्गिरसः स्वर्गं लोकं गच्छन्तोऽन्नरसं व्यभजन्त विभज्यमानेऽवशिष्टोऽन्नरसो भूमौ पतितः शणमुञ्जनामकतृणरूपेणाविर्भूतस्तस्माच्छणमुञ्जमयी मेखला । अतएव मेखलाया आङ्गिरसत्वमिति तित्तिरिणा प्रत्यपादि । 'नीविं कुरुते सोमस्य नीविरिति' (का. ७ । ३ । २७ )। हे मेखले, त्वं सोमस्य नीविरसि सोमदेवतायाः प्रियभूता ग्रन्थिरसि । मूलाग्रयोरेकीकरणेन ग्रन्थिविशेषो नीविरुच्यते । अदीक्षितस्य पितृदेवत्या नीविरुक्ता दीक्षितस्य तु सोमयागाय नीविः सोमेन व्यपदिश्यते । 'शिरः प्रोर्णुते विष्णोः शर्मेति' ( का० ७ । ३ । २८)। हे वस्त्र, त्वं विष्णोः व्यापकस्य यज्ञस्य शर्मासि सुखहेतुर्भवसि । अतो यजमानस्य शर्म सुखं कुर्विति शेषः ॥ 'कृष्णविषाणां त्रिवलिं पञ्चवलिं वोत्तानां | दशायां बध्नीते तया कण्डूयनमुपस्पृशत्येनया दक्षिणस्या भ्रुव उपरीन्द्रस्य योनिरितीति' (का० ७ । ३ । २९-३१)। हे कृष्णविषाणे, त्वं यथा पूर्वमिन्द्रस्य योनिरसि तथेदानीं यजमानस्य स्थानं भवेति शेषः । पुरा कदाचिद्यज्ञपुरुषो दक्षिणां देवीं समभवत्तस्मात्संभावनादिन्द्रोऽजायत तदानीमत्रान्यस्योत्पत्तिर्मा भूदिति विचार्येन्द्रः स्वां योनिं दक्षिणाया आच्छिद्य मृगेषु न्यदधात् । निहिता सा योनिः कृष्णविषाणाभूदिति तित्तिरिश्रुतौ यज्ञो दक्षिणामभ्यधादित्याख्याने कथा । । तस्मात्कृष्णविषाणाया इन्द्रयोनित्वम् ॥ 'भूमौ चोल्लिखति सुसस्या इतीति' (का० ७ । ३ । ३२ )। हे कृष्णविषाणे, त्वं कृषीः सुसस्याः कृधि कुरु । करतेः शपि लुप्ते 'श्रुशृणु' (पा० ६ । ४ । १०२) इत्यादिना हेर्धिः । शोभनं सस्य ' यासु ताः सुसस्याः । सस्यं व्रीहियवादि । तदर्थो भूम्युल्लेखः । कृषिः । यजमानानां कृषयः सन्ति ताः सर्वाः शोभनधान्याः कुर्वित्यर्थः । 'मुखसंमितमौदुम्बरं दण्डं प्रयच्छत्युच्छ्रयस्वेत्येनमुच्छ्रयतीति' (का० ७ । ४ । १-२) । दण्डो देवता । हे । वनस्पते वृक्षावयव दण्ड, उच्छ्रयस्व उन्नतो भव । ऊर्ध्वो भूत्वा अंहसः पापात् मा मां पाहि रक्ष । तत्र कालावधिरुच्यते ।
अस्यानुष्ठीयमानस्य यज्ञस्य उदृचः उत्तमायाः समाप्तिगतायाः ऋचः आ तदृक्पर्यन्तमित्यर्थः ॥ १० ॥

एकादशी।
व्र॒तं कृ॑णुता॒ग्निर्ब्रह्मा॒ग्निर्य॒ज्ञो वन॒स्पति॑र्य॒ज्ञिय॑: ।
दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हसᳪ सुती॒र्था नो॑ अस॒द्वशे॑ ।
ये दे॒वा मनो॑जाता मनो॒युजो॒ दक्ष॑क्रतव॒स्ते नो॑ऽवन्तु॒ ते न॑: पान्तु॒ तेभ्य॒: स्वाहा॑ ।। ११ ।।
उ० वाचं विसृजते । व्रतं कृणुत । व्रतशब्देन पयोभिधीयते । मम क्षिप्रं भोजनार्थं पयः कुरुत । अग्निः ब्रह्म त्रयीलक्षणम् । अग्निः यज्ञः अग्निं प्रत्याख्याय यज्ञो न प्रवर्तत इत्याशयः । वनस्पतिर्यज्ञियः । 'न हि मनुष्या यजेरन्यद्वनस्पतयो न स्युः' इति श्रुतिः । दैवीं धियम् । शक्वरी अतिशक्वरी वा । अस्याश्च पूर्णेनार्धर्चेन व्रतायोपस्पृशति दैवीं धियं मनामहे । मनामह इति याञ्चाकर्मसु पठितः । देवसंबन्धिनीं धियं याचामहे । सुमृडीकाम् । 'मृड सुखने'। सुसुखाम् । अभिष्टये । अभिपूर्वस्य यजतेरादिलोपः । अभिइष्टये अभियागाय । अथवा अभिपूर्वस्य सिञ्चतेः अभिष्टिः । अभिषेकाय प्रक्षालनाय । वर्चोधाम् ब्रह्म