पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वाहा । पशुसाध्यत्वाद्यज्ञस्य पशुग्रहणम् । आपो देवीः विराट् लिङ्गोक्ता देवता । हे आपोदेव्यः, बृहत्यो महत्यः । विश्वशंभुवः सर्वस्य जगतः सुखेन भावयित्र्यः । हे द्यावापृथिव्यौ, हे उरो हे विस्तीर्ण अन्तरिक्ष, युष्मभ्यं च बृहस्पतये च । हविषा विधेम । विदधातिर्दानकर्मा । हविषेति प्रथमाया विपरिणामः । हविर्दध्मः ॥ ७ ॥
म० अतः परं षडौद्ग्रभणहोममन्त्राः । चतुर्णामग्निर्देवता । 'औद्ग्रभणानि जुहोति स्थाल्याः स्रुवेणाकूत्या इति प्रतिमन्त्रमिति' (का० ७।३।१६)। आकूत्यै प्रयुजेऽग्नये स्वाहा । अग्नये वह्निदेवाय स्वाहा सुहुतमिदमस्तु । किंभूतायाग्नये । आकूत्यै प्रयुजे । यज्ञं करिष्यामीत्येवंविधो मानसः संकल्प आकूतिः तस्यै तत्संपूर्त्यै । प्रयुजे प्रयुङ्क्तेऽसौ प्रयुक् तस्मै । संकल्पसिद्ध्यै निर्विघ्नं प्रेरयते इत्यर्थः । इति प्रथमो मन्त्रः ॥ मेधायै मनसेऽग्नये स्वाहा । श्रुतयोर्मन्त्रयोर्धारणशक्तिर्मेधा तत्सिद्ध्यर्थं मनसे मदीयमनोभिमानिनेऽग्नये स्वाहा सुहुतमस्तु । विद्याधारणशक्तिर्हि मनसः स्वास्थ्ये सत्येव भवति । इति द्वितीयः ॥ जपति । दीक्षायै तपसेऽग्नये स्वाहा । व्रतनियमो दीक्षा तत्सिद्ध्यर्थं मदीयशारीरतपोभिमानिनेऽग्नये स्वाहा । नियमसंरक्षणं तपसैव भवति । ततस्तपोदात्रे इत्यर्थः । इति तृतीयः ॥ सरस्वत्यै पूष्णेऽग्नये स्वाहा । मन्त्रोत्चारणशक्तिः सरस्वती तत्सिद्ध्यर्थं पूष्णे पुष्णातीति पूषा तस्मै वागिन्द्रियपोषकायाग्नये सुहुतमस्तु । इति चतुर्थः ॥ आपो देवीः । लिङ्गोक्तदेवता विराट् । यस्या एकादशाक्षराः त्रयः पादाः सा विराट् । दशकास्त्रयो विराडेकादशका वेत्युक्तेः । अत्र प्रथमो द्वादशार्णस्तेनैकाधिका । हे आपः, हे द्यावापृथिवी द्यावापृथिव्यौ, हे उरो विस्तीर्ण अन्तरिक्ष, युष्मभ्यं बृहस्पतये च हविषा विधेम हविर्दद्मः । द्वितीयार्थे तृतीया । विधतिर्दानकर्मा । स्वाहा सुहुतमस्तु । किंभूता आपः । देवीः देव्यो द्योतमानाः । बृहतीः बृहत्यः प्रभूताः । उभयत्र पूर्वसवर्णः । विश्वशंभुवः विश्वस्य जगतः शं सुखं भावयन्ति जनयन्ति वा विश्वशंभुवः । इति पञ्चमो मन्त्रः ॥ ७ ॥

अष्टमी।
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।। ८ ।।
उ० विश्वो देवस्य । सावित्र्यनुष्टुप् । विश्वः सर्वो जनः देवस्य दानादिगुणयुक्तस्य नेतुः प्रणेतुः प्रसवितुः मर्त्यः मनुष्यः वुरीत वृणीत सख्यं सखिताभावम् । किंच विश्वः सर्वः धनाय इषुध्यते प्रार्थयते सवितारम् । इपुध्यतिर्यात्राकर्मसु पठितः । किंच द्युम्नं वृणीत । द्युम्नं द्योततेर्यशो वाऽन्नं वा प्रार्थयते । पुष्यसे पोषाय स्थितये । य इत्थंभूतः सविता तस्मै स्वाहा ॥८॥
म० अथ षष्ठः । सवितृदेवत्यानुष्टुप् स्वस्त्यात्रेयदृष्टा । विश्वो मर्तः सर्वो मनुष्यो नेतुः फलप्रापकस्य देवस्य दानादिगुणयुक्तस्य सवितुः सख्यं सखिभावं वुरीत वृणुते प्रार्थयते । 'वृञ् वरणे' अस्माल्लिङि तङि प्रथमैकवचने व्यत्ययेन शपो लुकि 'उदोष्ठ्यपूर्वस्य' (पा. ७ । १ । १०२) इति ऋत उदादेशः। किंच विश्वः सर्वो जनो राये धनाय इषुध्यति सवितारं प्रार्थयते । इषुध्यतिर्याञ्चाकर्मसु पठितः ( निघ० ३ । १९ । १४)। किंच द्युम्नं द्योततेर्यशो वान्नं वा तच्च वृणीत प्रार्थयते । किमर्थम् । पुष्यसे पोषाय स्वप्रजापालनाय । पुषेस्तुमर्थे असेप्रत्ययः । यः इत्थंभूतः सविता तस्मै स्वाहा । इति षष्ठ औद्ग्रभणमन्त्रः । समाप्तास्ते ॥ ८ ॥

नवमी।
ऋ॑क्सा॒मयोः॒ शिल्पे॑ स्थ॒स्ते वा॒मार॑भे॒ ते मा॑ पात॒मास्य य॒ज्ञस्यो॒दृच॑: ।
शर्मा॑सि॒ शर्म॑ मे यच्छ॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः ।। ९ ।।
उ०. कृष्णाजिनयोः शुक्लकृष्णसंधिमालभते ऋक्सामयोरिति । ये युवामृचां साम्नां च शिल्पे स्थः । 'यद्वै प्रतिरूपं तच्छिल्पम्' इति श्रुतिः । प्रतिरूपे प्रतिभूते भवथः। ते वां युवाम् । आरभे आलभे । ते च मा पातं गोपायतम् । आ अस्य यज्ञस्य उदृचः उत्तमा ऋचः आसमाप्तेरित्यर्थः । । दक्षिणजानुमारोहति । शर्मासि कृष्णाजिनमुच्यते । शर्म शरणं यतस्त्वमसि अतः शर्म शरणं मे मह्यं यच्छ प्रयच्छ । नमस्ते अस्तु नमस्तुभ्यं भवतु । मा मां माहिᳪसीः॥९॥
म० 'कृष्णाजिनयोः सन्धिमालभत ऋक्सामयोरिति' (का. ७ । ३ । २३ ) इति । कृष्णाजिने देवते । हे कृष्णाजिनगते शुक्लकृष्णरेखे, युवामृक्सामयोः शिल्पे स्थः ऋगभिमानिसामाभिमानिदेवतयोः संबन्धिनी शिल्पे चातुर्ये तद्रूपे भवतः । 'यद्वै प्रतिरूपं तच्छिल्पम्' (३ । २ । १।५) इति श्रुतेः । ते वां तथाविधे युवामारभे अहं स्पृशामि । ते मा पातं तथाविधे युवां मा मां पालयतम् । कियन्तं कालमिति चेत्तदाह । अस्य यज्ञस्य आ उदृचः उत्तमा चरमा ऋगुदृक् तस्या उदृचः आ तत्पर्यन्तम् । ‘पञ्चम्यपाङ्परिभिः' (पा० २ । ३ । १० ) इति पञ्चमी । एतद्यज्ञसमाप्तिपर्यन्तमित्यर्थः । ऋक्सामाभिमानिन्यौ देवते देवानां यज्ञार्थं स्थिते सत्यौ केनापि निमित्तेन कृष्णमृगरूपं कृत्वा देवेभ्यः पलाय्य दूरे कुत्राप्यतिष्ठतां तन्मृगचर्मणि यच्छुक्लं तदृचो रूपं यत् कृष्णं तत् साम्नो रूपम् । तदुक्तं तित्तिरिणा 'ऋक्सामे वै देवेभ्यो यज्ञार्थ तिष्ठमाने कृष्णमृगरूपं कृत्वापक्राम्यातिष्ठतामेष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनमस्यै साम्नो यत्कृष्णम्' (६। १। ३) इति । 'दक्षिणजानुमारोहति शर्मासि' (का० ७ । ३ । २४) इति । हे कृष्णाजिन, त्वं शर्म शरणमसि ।