पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'कुशपवित्रैः चित्पतिर्मेति पावयति सप्तभिः सप्तभिः प्रतिमन्त्रमच्छिद्रेणेति सर्वत्रेति' (का० ७।३।१)। अच्छिद्रेणेति शेषस्त्रिष्वपि मन्त्रेष्वनुषज्यते । चित्पतिर्मा । चितां ज्ञानानां पतिश्चित्पतिर्मनोभिमानी देवो मा मां यजमानं पुनातु शोधयतु । 'मनो वै चित्पतिः' इति तित्तिरिवाक्यात् । यद्वा चित्पतिः प्रजापतिः। 'प्रजापतिर्वै चित्पतिः' (३ । १।२। २२) इति श्रुतेः। किंचाच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः किरणैः । वायुरच्छिद्रं पवित्रं शुद्धिहेतुत्वात् छिद्ररहितत्वाच्च । यद्वादित्यमण्डलमच्छिद्रं पवित्रम् । 'असौ वा आदित्योऽच्छिद्रं पवित्रम्' इति श्रुतेः। हे पवित्रपते, पवित्रान् शुद्धान् पातीति पवित्रपतिस्तत्संबुद्धौ हे पवित्रपते शुद्धपालक, ते पवित्रपूतस्य तव पवित्रेण पूर्वोक्तेन शुद्धस्य तस्य यजमानस्याभीष्टं भूयादिति शेषः । तदेव स्पष्टयति । यत्कामोऽहं पुने तत् शकेयम् । यः कामो यस्य यत्कामः । यद्वा यस्मिन् कामो यस्य स यत्कामः । सोमयागानुष्ठाने कामवानहं पुने आत्मानं शोधयामि तत्सोमयागानुष्ठाने शक्तो भूयासम् । यज्ञानुष्ठानसामर्थ्यं मेऽस्त्वित्यर्थः । वाक्पतिः वाचां पतिर्बृहस्पतिर्मा मां पुनातु । सविता देवोऽन्तर्यामी मा मां पुनातु । एतन्मन्त्रद्वयं पूर्ववद्योज्यम् ॥ ४ ॥

पञ्चमी।
आ वो॑ देवास ईमहे वा॒मं प्र॑य॒त्य॒ध्व॒रे । आ वो॑ देवास आ॒शिषो॑ य॒ज्ञिया॑सो हवामहे ।। ५ ।।
उ० आवो देवास इति वाचयति । देवी अनुष्टुप् । ईमहे इति याञ्चाकर्मसु पठितम् । हे देवासः, आ ईमहे आयाचे वो युष्मान् । किम् । वामम् 'वन षण संभक्तौ' । वननीयं संभजनीयं वस्तु । प्रयत्यध्वरे प्रयच्छति यज्ञे । किंच । हे देवासः । आहवामहे आ ह्वयामः । वः युष्माकं संबन्धिन्य आशिषः यज्ञियासः यज्ञसंपादिन्यः । यज्ञिया एव यज्ञियासः । आईमहे आयाचे वः ॥५॥
म० 'आ वो देवास इति वाचयतीति' ( का० ७ । ३ । ६)। अध्वर्युर्यजमानं वाचयति । दैवी अनुष्टुप् आशीः । हे देवासः देवाः, वयं वो युष्मान् वामं वननीयं यज्ञफलम् आ ईमहे साकल्येन याचामहे । वन्यते भज्यत इति वामम् । 'वन संभक्तौ' । मप्रत्ययः । ईमहे याचतिकर्मसु पठितो द्विकर्मकः (निघ०३।१९।१)। क्व सति । अध्वरे अस्मदीये यज्ञे प्रयति प्रवर्तमाने सति । प्रैतीति प्रयन् तस्मिन् । प्रपूर्वादिणः शतरि रूपम् । किंच हे देवासो देवाः, वो युष्मान् वयं हवामहे आह्वयामः । किं कर्तुम् । यज्ञियासः यज्ञस्येमा यज्ञिया यज्ञसंबन्धिनीराशिषः फलानि आ आनेतुं समानेतुमित्यर्थः । उपसर्गेण धातुरध्याहर्तव्यः । यज्ञफलप्राप्तुं युष्मानाह्वयाम इत्यर्थः ॥ ५॥

षष्ठी ।
स्वाहा॑ य॒ज्ञं मन॑स॒: स्वाहो॒रोर॒न्तरि॑क्षा॒त्स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒j स्वाहा॒ वाता॒दार॑भे॒ स्वाहा॑ ।। ६ ।।
उ० अथ अङ्गुलीर्न्यचते । स्वाहायज्ञं मनसः । यज्ञं मनसः सकाशादहमारभे इत्यनुषङ्गः । उरोर्विस्तीर्णादन्तरिक्षादहमारभे यज्ञं, द्यावापृथिवीभ्यामहमारभे यज्ञम् । वातादहमारभे यज्ञम् । पञ्च स्वाहाकारा येषु यज्ञेषु तत्रार्थवादः । 'यज्ञो वै स्वाहाकारो यज्ञमेवैतदात्मन्धत्ते' इति । स्वाहाकारेण हि हविः प्रदीयत इति स्वाहाकारो यज्ञः ॥६॥
म०. 'स्वाहा यज्ञमित्यङ्गुलीर्न्यचते नानाहस्तयोरेवं शेषं प्रतिमन्त्रं मुष्टीकृत्वा स्वाहेत्युक्त्वा वाग्यतोऽङ्गुष्ठौ तत्सहिते चोत्सृजतीति' (का० ७।३। ७-१०) । आद्यमन्त्रेण हस्तद्वयकनिष्ठिकाद्वयं सङ्कोचयति एवमन्यत्रयेणान्याः । स्वाहा वातादारभ इत्युत्तमेन मुष्टिद्वयं कुर्यादिति सूत्रार्थः ॥ स्वाहा | यज्ञम् । चतुर्णां यजुषां यज्ञो देवता । स्वाहाशब्दस्य निपातत्वेनानेकार्थत्वादुचिता अर्था ब्राह्मणानुसारेण ग्राह्याः । तथाहि । स्वाहा यज्ञं मनसः । मनस इति पञ्चमी तृतीयार्थे । मनसा यज्ञं स्वाहा चित्तेन यज्ञमभिगच्छामि । अत्र स्वाहाशब्दोऽभिगमनार्थः । स्वाहोरोरन्तरिक्षात् । पञ्चमी सप्तम्यर्थे । उरौ विस्तीर्णेऽन्तरिक्षे स्वाहा यज्ञ आश्रितः । स्वाहाशब्दो | यज्ञार्थोऽतः प्रभृति । स्वाहा द्यावापृथिवीभ्याम् । द्यावापृथिव्योः स्वाहा यज्ञः श्रितः । लोकत्रयव्यापी यज्ञ इत्यर्थः । स्वाहा वातादारभे । वाताद्वायुप्रसादात् स्वाहा यज्ञमारभे प्रवर्तयामि । वायोः सर्वकर्मप्रवर्तकत्वात् । स्वाहा यज्ञ एवं सिद्ध इति शेषः ॥ ६ ॥

सप्तमी।
आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॑ सर॑स्वत्यै पू॒ष्णेऽग्नये॒ स्वाहा॑ ।आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथिवी॒ उरो॑ अन्तरिक्ष । बृह॒स्पत॑ये ह॒विषा॑ विधेम॒ स्वाहा॑ ।। ७ ।।
उ०. औद्ग्रभणानि जुहोति । आकृत्यै प्रयुजे । आकुवनमाकूतिः प्रयत्नः आत्मनो धर्मः । मनसः प्रेरणाय भवति । प्रयुङ्क्त इति प्रयुक् आकूतिलक्षणाय प्रयोगलक्षणाय च अग्नयेस्वाहा सुहुतमस्तु । मेधायै मनसे मेधालक्षणाय मनोलक्षणाय च अग्नये स्वाहा । जपति दीक्षायै तपसे । दीक्षालक्षणाय तपोलक्षणाय च अग्नये स्वाहा । तपःशब्देन चोपसद उच्यन्ते । सरस्वत्यै पूष्णे । 'वाग्वै सरस्वती पशवो वै पूषा' इति श्रुतिः । वाग्लक्षणाय पशुलक्षणाय च अग्नये