पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रिप्रमिति पापनामनी भवतः'। यस्मात्स्वभावत एव सर्व पापं प्रकर्षेण दहन्ति देव्यः । उत्क्रामत्युत्तरपूर्वार्धम् । उदिदाभ्यः शुचिरापूत एमि । उदेमि उद्गच्छामि । इत्शब्दोऽनर्थकः ।। आभ्योऽद्भ्यः शुचिः सन् आपूतश्च यावत्पापं पावितः । वासः परिधत्ते । दीक्षातपसोः। दीक्षैव दीक्षा । तपःशब्देन उपसद उच्यन्ते तपःप्रधानत्वात् । वासः तन्वास्त्राणं तनूशब्देनोच्यते । या त्वं दीक्षातपसोस्तनूः शरीरं भवसि 'तां त्वा शिवां शान्तां शग्मां ससुखां साध्वीं वा' इति श्रुतेः । परिदधे आच्छादयामि । भद्रं कल्याणम् । वर्णं दीक्षितरूपम् पुष्यन् वर्धयन् । अनेन हि दीक्षितरूपमभिव्यज्यते ॥ २ ॥
म०. 'आपो अस्मानिति स्नात्वेति' ( का० ७ । २ । १५)। मातरः मिमते ता मातरो जगन्निर्मात्र्यो मातृवत्पालयित्र्यो वा आपः अस्मान् कृतक्षीरान् यजमानान् शुन्धयन्तु 'शुन्ध शुद्धौ' शोधयन्तु । क्षौरकर्मनिमित्तामपहतिं निवारयन्त्वित्यर्थः । किंच घृतप्वः 'घृ क्षरणे' जिघर्ति क्षरतीति घृतं तेन क्षरितजलेन पुनन्तीति घृतप्वः जलदेवतास्ताश्च घृतेन क्षरितजलेन नोऽस्मान् पुनन्तु शुद्धान् कुर्वन्तु । किंच देवीः द्योतमाना आपो विश्वं हि । हि एवार्थः । सर्वमेव रिप्रं पापं प्रवहन्ति प्रकर्षेणापनयन्तु । 'रपो रिप्रमिति पापनामनी भवतः' (निरु० ४ । २१) इति यास्कः । 'उदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्धमिति' ( का० ७ । २ । १५) । अहमाभ्योऽद्भ्यः उदेमि इत् । इत् एवार्थे । उद्गच्छाम्येव । जलान्निर्गच्छामीत्यर्थः । किंभूतोऽहम् । शुचिः शुद्धः स्नानेन । तथा आपूतः समन्ताद्भावेनान्तरपि शुद्ध आचमनेन । शुचिरापूत इति शब्दाभ्यां स्नानाचमनाभ्यां बहिरन्तश्च शुद्धिरुक्ता ॥ 'क्षौमं वस्ते निष्पेष्टवै ब्रूयादहतं चेदद्भिरभ्युक्ष्य स्नातवस्यं(?)वाऽमौत्रधीतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति' (का० ७ । २ । १६-१९) ॥ दीक्षातपसोः वासो देवता । हे क्षौम वस्त्र, त्वं दीक्षातपसोस्तनूरसि । दीक्षा दीक्षणीयेष्टिः । तप उपसदिष्टिः । दीक्षाभिमानिदेवतायास्तपोभिमानिदेवतायाश्च त्वं शरीरवत्प्रियमसि । तां दीक्षातपसोस्तनूं तद्देवताद्वयशरीरभूतां त्वामहं परिदधे धारयामि । किंभूतां त्वाम् । शिवां शग्मां द्वयोरपि शब्दयोः सुखवाचकवादत्यन्तसुखरूपां कोमलत्वात् । किंभूतोऽहम् । भद्रं वर्णं पुष्यन् त्वत्परिधानेन कल्याणीं कान्तिं पुष्यन् ॥ २॥

तृतीया।
म॒हीनां॒ पयो॑ऽसि वर्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । वृ॒त्रस्या॑सि क॒नीन॑कश्चक्षु॒र्दा अ॑सि॒ चक्षु॑र्मे देहि ।। ३ ।।
उ० तमभ्यनक्ति । नवनीतमुच्यते । महीनां पयोऽसि । पयोविकारे नवनीते पयःशब्दः । महीनां गवां पयोऽसि । यतश्च 'वर्चोदा असि' वर्चस्तेज इत्यनर्थान्तरम् । अतो वर्चो मे देहि । अक्षिणी अनक्ति । वृत्रस्यासि । 'यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्' इत्यादिना त्रैककुदस्य चक्षुःसंस्तवस्तदयं मन्त्रोऽभिवदति । वृत्रस्य चक्षुषः संबन्धिनी भवसि त्वम् । कनीनकः पुरुषो यतः । हे त्रैककुद् , यतश्च स्वभावतः चक्षुर्दा असि अतश्चक्षुर्मे देहि ॥३॥
म० शालां पूर्वेण तिष्ठन्नभ्यङ्क्ते कुशेषु नवनीतेन शीर्णोऽध्यनुलोम सपादको महीनां पयोऽसीति' ( का० ७ । २।३३ )। प्राचीनशालापूर्वभागेषु कुशेषु स्थित्वा नवनीतं गृहीत्वा शिरस आरभ्य पादान्तं शरीराभ्यङ्गं कुर्यादिति सूत्रार्थः । महीनां पयः। नवनीतमुच्यते । हे नवनीत, त्वं महीनां गवां पयोऽसि । महीति गोनामसु पठितम् (निघ० २।११। ५ ) । नवनीतस्य क्षीरजन्यत्वात्पयस्त्वोपचारः । वर्चोदा असि । वर्चो ददातीति वर्चोदाः । अतिस्निग्धत्वेन कान्तिप्रदमसि । पुंस्त्वमार्षम् । अतो मे मह्यं यजमानाय वर्चो देहि कान्तिं प्रयच्छ ॥ 'वृत्रस्येत्यक्षावनक्ति त्रैककुदाञ्जनेनाभावेऽन्यदिति' (का० ७ । २ । ३४) । त्रिककुत्पर्वतादुत्पनाञ्जनं लभ्यते चेत्तेनाक्षिद्वयमञ्ज्यात्तदभावेऽन्यदप्यञ्जनं ग्राह्यमिति सूत्रार्थः । वृत्रस्य । अञ्जनं देवता । हे अञ्जन, त्वं वृत्रस्यासुरस्य कनीनकोऽसि नेत्रमध्यगतकृष्णमण्डलरूपोऽसि । 'यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्' (३।१।२ । १२) इत्यादिश्रुतिः । तथाच तित्तिरिः 'इन्द्रो वृत्रमहन् तस्य कनीनिका परापतत्तदेवाञ्जनमभवत्' इति । चक्षुर्दा असि कनीनिकारूपत्वात्त्वं दृष्टिप्रदोऽसि । अतो मे मह्यं चक्षुर्देहि सम्यग्दृष्टिपाटवं प्रयच्छ ॥३॥

चतुर्थी।
चचि॒त्पति॑र्मा पुनातु वा॒क्पति॑र्मा पुनातु दे॒वो मा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
तस्य॑ ते पवित्रपते प॒वित्र॑पूतस्य॒ यत्का॑मः पु॒ने तच्छ॑केयम् ।। ४ ।।
उ०. कुशपवित्रैः पावयति । चित्पतिर्मा पुनातु । 'चिती संज्ञाने' । अस्य चित् विज्ञानात्मा मनो वाभिधीयते । चित्पतिर्मा पुनातु ।'प्रजापतिर्वै चित्पतिः' इति श्रुतिः। वाक्पतिः। 'प्रजापतिर्वै वाक्पतिः' इति श्रुतिः । देवो मा सविता पुनातु । अच्छिद्रेणेति व्याख्यातम् । तस्य ते पवित्रपते । तस्य पवित्रपूतस्येति च षष्ठ्यन्तयोः संबन्धः । यजमानवाचित्वं च । तस्य मम पवित्रपूतस्य सतः । ते तव प्रसवे वर्तमानस्य हे पवित्रपते देव सवितः, एतद्भवतु । यस्कामः अहमात्मानं पुने पावयामि । तच्छकेयम् तच्छक्नुयाम् । 'यज्ञस्योदञ्चं गच्छामि' इति श्रुतिः । अच्छिद्रेणेत्येवमादित्रयाणामनुषङ्गो योज्यः ॥ ४ ॥