पृष्ठम्:शिवलीलार्णवः.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
सप्तमः सर्गः ।.


पशुपतिरथ पाण्ड्यकन्यकायै विचकिलपुष्पमयीं. वितीर्य मालाम् ।
पुनरपि, स तया समर्प्यमाणां हृदि चकमे निभृतं मधूकमालाम् ॥ ५९ ॥
कियदपि समवाप्य यत्कटाक्षं क्षितिपतयो भुवने पराक्रमन्ते ।
न्यविशत यदि सैव वीरलक्ष्मीर्नृपतिपदे न कथं नमन्तु भूपाः ॥ ६० ॥
अवनिरफलदद्भुतानि सस्यान्यददुरपां निधयो मणीन् महार्घान् ।
उपददुरुचितान् गजान् वनान्ता भुवि समये समये ववर्ष च द्यौः ॥ ६१ ॥
न यदतिचरितं जनेषु केनाप्यपरिमितं ननु भाग्यमेतदस्याः ।
त्रिभुवनजननी कृतापराधं कमिव नियच्छतु सा कथं दयार्द्रा ॥ ६२ ॥
अवनितलमवन् गुरुः किलास्याः प्रशमयति स्म नृणां परं विवादम् ।
त्रिभुवनजनताविवादशान्तिः परिणमति स्म सदैव हन्त तस्याम् ॥ ६३ ॥
नृपकरमखिलं वितीर्थ शिष्टं यदिह शिवाय निरुप्तमस्ति किञ्चित् ।
तदपि ननु हरन्ति तावकीना इति वचनेषु जहास सा जनानाम् ॥ ६४ ॥
अहमहमिकया दिशोऽधिगन्तुं परिचलतां यशसां मिथो विमर्दात् ।
पथि पथि निभृतानि कानिचित् किं रजतहिमाद्रिमिषाद्यशांसि तस्याः ॥ ६५ |
कर इति हि जहार षष्ठमंशं परमखिलं तु शिवार्पणैकबुद्ध्या ।
स्वयमुपददिरे त एव चेत् तत् कथमिव कोशसमृद्धिरस्तु नास्याः || ६६ ॥
श्रियमखिलधनाकरेषु वाणीं विशयपदेषु महानसेऽन्नपूर्णाम् ।
करितुरगपदेषु वीरलक्ष्मीं न्यधित सखीरधिकारिणीस्तदा सा ॥ ६७ ।
धनकनकमतङ्गजादिलक्ष्म्यो धृतवपुषः सकलाः कलाश्च तस्याम् ।
अदधत परिचारिकाधिकारं त्रिभुवनमातरिं राज्यपालिकायाम् ॥ ६८ ॥
अनुसमयमशेत यद्यपीयं तदपि सदैव तु जागराम्बभूव ।
परिहृतनिमिषेण पाण्ड्यकन्या तपनशशाङ्कमयेन दृग्द्वयेन ॥ ६९ ॥
अथ नृपतिसुतां कृताभिषेकां विमतजयव्यवसायिनीं विधातुम् ।
शरदुपनिपपात शोषयन्ती पथि पथि पङ्ककळङ्कितान् प्रदेशान् ॥ ७० ॥
तरुगिरिमरुसागराविशेषं जगदखिलं जलरूपतां नयन्तः ।
समुपचितयशोभरा इवासन् सलिलमुचो विमलाः समन्ततोऽपि ॥ ७१ ॥