पृष्ठम्:शिवलीलार्णवः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
सप्तमः सर्गः ।


शिथिलमनुससार बाललीलां विरळमपि प्रकटीचकार लज्जाम् ।
अन्यदियमहानि पञ्चषाणि प्रतिनवयौवनमारुतावधूता ॥ ३३ ॥
वचसि विहसिते गतेऽवलोके वपुषि च कापि दशा क्षणे क्षणेऽस्याः ।
समजनि मदनैकदर्शनीया मदनजिदेकमनोविभावनीया ॥ ३४ ॥
परिविगलति शैशवे प्रवृत्ते तरुणिमनि प्रतिपन्नसर्वतत्त्वा ।
अजनि पितुरमात्यताधुरीणा परमगुरुश्च परात्मचिन्तने सा ॥ ३५ ॥
दुहितरि नृपतिस्तटातकायां धुरमुभयोरपि लोकयोर्निवेश्य ।
भवममरगणादिवापवर्गादपि परमं गणयन्नहान्यनैषीत् ॥ ३६ ॥
सुमतिमभिधयार्थतोऽपि देवः कुलसचिवं निकटे निवेश्य जातु ।
हृदयगतमिदं समाचचक्षे सविधजुषोः सहधर्मिणीकुमार्योः ॥ ३७॥
स्मररास न सुमते ! यथा गुरुर्मामशिष देमां श्रियमर्पयन् मयि प्राक् ।
अपहतविमतां भुवं समानामयुतमिमामनुपालयेति हृष्टः ॥ ३८ ॥
इदमवितथयाशिषा गुरूणां तव च घिया धृतमित्थमाधिपत्यम् ।
अयुतमपि समाः समाप्तिमीयुः कुलमपि कुम्भभुवेदमुद्घृतं नः ।। ३९ ।।
वसति च शिशुतामतीत्य वत्सा वयसि महीविलयानुपालनार्हे ।
अयमपरिणतो मनोरथो यत् कलितकरग्रहमङ्गळा तु नेयम् ॥ ४० ॥
दिवि भुवि धरणीतलेऽपि वास्याः पतिरुचितो न हि कोऽपि भासते नः ।
तमिममपि मनोरथं मदीयं सफलयिता न चिरेण चन्द्रमौलिः ॥ ४१ ॥
अहमिव हितचिन्तने त्वमस्या भवसि च राज्यविधौ परः सहायः ।
भवति च जननी तटातकायाः परिणयकर्माणि भाविनि स्वतन्त्रा ॥ ४२ ॥
अधिगतमधिगम्यमीश्वराणां कुलमपि वीक्षितमुद्धृतं कुमार्या ।
मम तु खलु मनोरथोऽयमेको यदुत लभेय पदं जगज्जनन्ः ॥ ४३ ॥
इति वदति महीपतौ महिष्यां तदनुगमाध्यवसायांवज्वरायाम् ।
अगणितगुरुशोकसम्प्रमूढावध सुमतिश्च तटातकाप्यभूताम् ॥ ४४ ॥
कथमपि शिशिरोपचारभेदैरलभत संविदमम्बिका न यावत् ।
चुलुकितचतुरर्णवो महर्षिः स्वयमभिगम्य स तावदित्थमूचे ॥ ४५ ॥



१. भव शिवं ससारं च.