पृष्ठम्:शिवलीलार्णवः.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
शिवलीलार्णवे


विहृतिषु नयने पिधाय तस्याः स्वयमभितश्चरितुं कृतोद्यमानाम् ।
त्रिजगति तिमिरावृते सखीनामपि चलितुं स्वपदान्न शक्तिरासीत् ॥ २१ ॥
अथ कुलगुरुमादिदेश मित्रावरुणसुतं मलयध्वजो नृपालः ।
दुहितुरखिललोकमातृकाया विरचयितुं किल मातृकोपदेशम् ॥ २२ ॥
निखिलजनिमतां सदा लिखन्ती निटिलतलेषु शुभाशुभाक्षराणि ।
अलिखदपरिजानतीव बाला कथमपि सा भुवि वर्णमेकमेकम् ॥ २३ ॥
अथ भुवि विलिखन्त्यचं तुरीयं कलशभवस्य मुनेः पुरः कुमारी ।
सदयमुपादेदेश भक्तियोगात् प्रणमति कामकलारहस्यमस्मिन् ॥ २४ ॥
निरवधिपरमात्मचिन्मयी सा किमपि यदा निदघे कलासु दृष्टिम् ।
अहमहमिकया तदा परीयुः सकलकलाश्च सखीजना इवैनाम् ॥ २५ ॥
विदितमविदितं च यत् किलासीत् प्रथममजातमुखात् गृहीतमैशात् ।
तदखिलमवधारयन्नमुष्याः कलशभवो गुरुदक्षिणां प्रपेदे ॥ २६ ॥
असिकुलिशगदाशरासशक्तिभ्रमरकतोमरभिण्डिपालशूलैः ।
प्रकटितरणकौशलाः खुरल्यां सममिव सा विजहार वीरलक्ष्म्या |॥ २७ ॥
उपनिषदुदिता मतङ्गजा सा प्रियदुहिता मलयध्वजस्य राज्ञः ।
मदभरभरितान् मतङ्गजेन्द्रान् सहजतया वशमानिनाय सद्यः ॥ २८ ॥
हयवरमधिरुह्य सञ्चरन्ती खुरदळितक्षितिधूळिधूसराभ्रम् ।
अवतरणमनक्षरं जगौ सा निजमिव भूमिभरावरोपणार्थम् ॥ २९ ॥
कवचितमवधूतखड्गरेखं नियमितवेणिनिबद्धतूणमन्वक् ।
कतिचन कृतिनः सिषेविरेऽस्यास्तुरगरजोमसृणाळकं वपुस्तत् ॥ ३० ॥
अथ शिथिलकुमारिका * दशान्तप्रविरळकन्दळदद्भुताभिरूप्यम् ।
अलमकुरुत यौवनं तदानीं त्रिभुवनमङ्गलमङ्गमङ्गमस्याः ॥ ३१ ॥
हृदि किल निममज्ज यावदन्तः प्रसवशरो मलयध्वजात्मजायाः ।
पिशुन इव स तावदुन्ममज्ज स्तनकलशस्तु हृदो बहिस्तदीयः ॥ ३२ ॥



१. ईकारम् २. शस्त्रशिक्षणशाला खुरली.



  • ‘दशान्तम्' इति कपुस्तके पाठः.