पृष्ठम्:शिवलीलार्णवः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
शिवलीलार्णवे


कीर्त्याविष्कृतसरणिं प्रतापगुप्तं पश्यन्तस्तुरगामैतस्ततश्चरन्तम् ।
तद्धव्यग्रहणरसार्द्रतालुमूला वर्षान्तं विबुधगणाः प्रतीक्ष्य तस्थुः ॥ ७॥
सर्वैरप्यधिगतवाजिमेधकाण्डैः सम्पूर्णे किल विषयेऽस्य वाजिरक्षाः ।
वृत्त्यर्थं क्वचन किमप्यनाददानाः स्वैः स्वैः स्वैः कथमपि वर्तयाम्बभूवुः ॥ ८ ॥
अश्वत्थे क्षणमवबद्ध्य तं तुरङ्गं सम्पूर्ण शशिनि समेत्य तिप्ययोगम् ।
आवृत्तं नगरमभि प्रचोदयन्तो निन्युस्तं नृपपुरुषा हिमावसाने ॥ ९ ॥
आयाता धरणिभुजो यदासमुद्रादायाताः सकलकलाविदश्च लोकाः ।
आयास्यन्त्यमरगणाश्च हव्यहेतोस्तेनायात् स्वयमपि कौतुकी वसन्तः ॥ १० ॥
निश्शेषोपरतरसालपल्लवाशानिर्विष्णैर्वनभुवि कोकिलैस्तदानीम् ।
आसेदे शिशिरदिनान्तसुप्तबुद्धैराकाशाच्च्युत इव पञ्चमो निनादः ॥ ११ ॥
प्रम्माना धरणिरुहः स्वतः प्रसेदुर्निष्क्रान्तो मलयगिरेर्बहिः समीरः ।
वीरश्रीर्विषमशरस्य बाहुकाण्डे विश्रान्तिं स्वयमभिरोचयाम्बभूव ॥ १२ ॥
मालिन्यं दधति मषीविलेपनेन प्रावण्यं युवतिषु घोषयन्ति यूनाम् ।
झङ्कुर्वद्भ्रमरनिभेन मीनकेतोः सञ्चेरुर्बहिरिव शासनाक्षराणि ॥ १३ ॥
कूजन्तो मदनपुरोहिता द्विरेफाः पुष्पाणि ध्रुवमभिमन्त्रयाम्बभूवुः ।
स्वस्थानस्थितिमपरित्यजन्त एते विध्येयुः किमितरथा शराः शरव्यम् ॥ १४ ॥
आनङ्गं निगममजस्रमुद्गिरन्तो भैक्षेण प्रतितरुवीथि वर्त्तयन्तः ।
निर्निद्रास्त्वहनि निरन्तरं द्विरेफा आचार्ये वटव इवावसन् वसन्ते ॥ १५ ॥
अध्वर्यु मलयसमीरमन्यपुष्टं होतारं वनभुवि सामगं द्विरेफम् ।
ब्रह्माणं मधुमपि सादरं वृणाना आजहुर्मदनमहाध्वरं युवानः ।। १६ ।।
मोहान्धे जगति विपश्चितो यतः केऽप्यग्नीनादपुरयजन्त चास्तशङ्काः ।
तन्मूलं ध्रुवमयशो दिशो दशापि प्रावारीदसमशरस्य भृङ्गदम्भात् ।। १७ ।।
आमूलादविरळमाचिते प्रवाळैश्रूतेऽपि प्रययुरतोषमन्यपुष्टाः ।
सर्वाणि ग्रसितुमिमानि यन्न शेकुः स्थातुं वा यदपि न शाखिकामपश्यन् ॥ १८ ॥
के भृङ्गाः क इव पिकाः समीरणः कश्चन्द्रः कः क इव मधुर्मनोभवः कः ।
दौर्भाग्याद्विरहिजनस्य दुर्बिभेदं हन्तासीत् कथमिदमैकमत्यमेषाम् ॥ १९ ॥
आचूडं कुसुममया मधोः प्रसादाद् वासन्तीविचकिलचूत चम्पकाद्याः ।
धुस्तूरेष्वपि च निरीक्ष्य तां समृद्धिं मन्दाक्षादिव नतमौलयो बभूवुः ॥ २० ॥