पृष्ठम्:शिवलीलार्णवः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
षष्टः सर्गः । .


तवास्मि सूनुस्तव तात ! किङ्करस्तव स्वभूतोऽस्मि सहानुबन्धिभिः ।
यथानुगृह्णासि तथाचरेयमित्यसावियानेव मनोरथो मम ।। ८० ।।
इति प्रपन्नं मलयध्वजं नृपं शताश्वमेधावभृताप्लुतं मुनिः ।
स भाविकर्मण्यधिकारसिद्धये शशास भूयो हयमेधकर्मणि ॥ ८१ ॥

इत्थं प्रसाद विहिताशिषि कुम्भयोनौ
याते तपोवनपदं पुनरेतुकामे ।
आराधयत् क्षितिपतिः शिवमश्वमेध-
सम्भारसम्भरणसम्भ्रमतोऽपि तावत् ॥ ८२ ॥
इति श्रीमहाकविनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णवे पञ्चमः सर्गः ।


अथ षष्ठः सर्गः ।



आहर्त्तुं य॑युमभितो ययुर्नियुक्ता मर्त्या ये किल मलयध्वजेन राज्ञा ।
लब्ध्वा ते क्वचिदथ सोमपात्मजं द्रागाजहुः स्वयमपि सोमपं तुरङ्गम् ॥ १ ॥
विस्तीर्णामथ तपनीयपङ्कजिन्या व्यातेनुस्तटभुवि तस्य यज्ञशालाम् ।
आरादप्यवनिभुजां महोपकार्या निस्संख्यानुटजगणांश्च तापसानाम् ॥ २॥
आनीते तुरगवरे समाहतायां सामग्रयामनिधिसभाजनोचितायाम् ।
आगच्छत् सह मुनिभिः परावरज्ञैर्ब्रह्मर्षिश्चुलुकितसागरः सशिष्यैः ॥ ३ ॥
आराध्य प्रमथपतिं महोषहारैमीनाक्षीमपि मलयध्वजः सदारः ।
आरेभे सवनमनुज्ञया मुनीनामागस्त्यं चरणयुगं प्रणम्य सद्यः ॥ ४ ॥
स्वायत्तामपि दुरतिक्रमात् प्रतापात् संगृह्णन् भुवि जनतां ग साङ्ग्रहण्या ।
मुक्ताश्वो धृतनियमः पदेऽस्य होमं कुर्वाणः समग्यगार व ॥ ५ ॥
स्वच्छन्दं हयमभितोऽपि सञ्चरन्तं संगुप्तं नृपपुरुषैः शतैश्चतुर्भिः ।
रोद्धुं यद्यपि न शशाक राजलोकः शक्तोऽभूत् पुनरखिलोऽनुरोधुमेनम् || ६ ||



१. 'ययुरश्वोऽश्वमेधीयः' इत्यमर. २. सोमपात्मजं वरुणप्रभवम् । अथ च सोमपीथिसूनुम् .
.३. सांग्रहण्येष्टथा यजते इमां जनतां संगृह्णानीति' इति यजुर्वेदः