पृष्ठम्:शिवलीलार्णवः.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
शिवलीलार्णवे


अदृश्यत सहस्रांशुरस्तभूधरमस्तके ।'
मन्देहयुद्धलब्धासृक्पङ्कदिग्ध इवारुणः ।। ४९ ।।
अर्कमस्तं गमिष्यन्तमुपेत्यानुचराः कराः ।
अन्वगन्वगलम्बन्त दुद्रुवुर्ये पुरः पुरः ॥ ५० ॥
निन्दन्तो रजनीं कोका नन्दन्तस्तां चकोरिकाः ।
चञ्चूचञ्चवि सायाह्ने सर्वतः सम्प्रजह्रिरे ॥ ५१ ॥
प्रचुक्रुशुर्द्विजाः केचिदपरे मौनमास्थिताः ।
असङ्घातो द्विजानामित्यासीत् तथ्यं तदा वचः ॥ ५२ ॥
प्रतीच्यां ददृशे रागः स स्थास्यति कियच्चिरम् ।
प्राच्यां दृष्टचरो ह्येष भास्वतो भ्राम्यतः सदा ॥ ५३ ॥
प्रनष्टे महसां राशौ प्रादुर्भूतं हि तारकैः ।
तमसाभ्यावृते लोके तावद्भिरपि किं कृतम् ॥ ५४ ॥
त एव भानवो भानोम्तारकावपुषा स्थिताः ।
तथाप्येकः स नास्तीति तमांसि विजजृम्भिरे ॥ ५५ ॥
प्रायो जात्यनुरोधाय पद्ममात्रे निर्मीलति ।
भानुहस्तगतेनापि पङ्कजेन निमीलितम् ॥ ५६ ॥
तथा सान्द्रीभवन्ति स्म तमांसि हरितां मुखे ।
व्याप्नुवन्ति हि तान्येव विहन्यन्तं यथा मिथः ॥ ५७ ।।
शैवलोत्पलभृङ्गाणां सरसीषु निशामुखे ।
स्पर्शसौरभकूजाभिः स्वं स्वं रूपमबुध्यत ॥ ५८ ॥
निष्पपातेव गगनं निस्ससारेव सागरः |
आववारेव निश्शेषमविद्या महती तदा ॥ ५९ ॥
अयश्शृङ्खलवत् क्रष्टुमाहर्त्तु तृणपूलवत् ।
आश्यानपङ्कवच्छेत्तुमासीच्छक्यं तदा तमः ॥ ६० ॥
अनिस्तार्यण मनसाप्यनाव्येन * च रंहसा |
स्रोतसेवान्धकारस्य स निन्ये नीपकाननम् ॥ ६१ ॥



चखूचश्चवीति। 'तत्र तेनेदमिति सम्पे' (२-२-२७) इति बहुव्रीहिः.
'नाति' इति खपुस्तकं पाठ: