पृष्ठम्:शिवलीलार्णवः.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
शिवलीलार्णवे


पश्यन् मध्यमलोकस्य रामणीयकमद्भुतम् ।
पांसुभिः स करोद्भूतैश्चकारेव दिवं भुवम् ॥ २६ ॥
विद्रवद्भिर्वने तस्मिन् व्याधव्याघ्रमृगाधिपैः ।
मृगाणां रक्षणादासीन्मृगेन्द्रः सोऽद्भुतः क्षितौ ॥ २७ ॥
महेन्द्रादेष मलयं मलयादपि दर्दरम् ।
सञ्चरन् जातुचित् प्राप कुञ्जरो नीपकाननम् ॥ २८ ॥
मदगन्धाशया प्राप्तैर्मधुपैर्विपिनात् ततः ।
सम्प्रदर्शितबर्त्मेव स ययौ हेमपद्मिनीम् ॥ २९ ॥
गणेशमदनिष्यन्दगन्धसर्वस्ववेदिनः।
उपेक्षां भ्रमराश्चक्रुरुन्मदास्तन्मदाम्भसि ॥ ३० ॥
स पतन्नेव सरसि क्षीरोद इव मन्दरः ।
कल्लोलैः प्लावयामास कदम्बविपिनान्तरम् ॥ ३१ ॥
मलिनो निर्ममज्जास्मिन्नुन्ममज्जाथ निर्मलः ।
प्रागभूत् केवलो भौमः सार्वभौमोऽथ दन्तिनाम् ॥ ३२ ॥
उत्तीर्य बहिरन्तश्च नीरजा निरजाकरात् ।
अतीयाय स तं शापमधीयाय मुनेर्गिरः ॥ ३३ ॥
गाङ्गेयैः शैवगाङ्गेयैः कमलैः कमलास्पदैः ।
एकदन्तं चतुर्दन्तः सिन्धुरं सिन्धुरोऽर्चयत् ॥ ३४ ॥
पुँष्करैरभिषिच्येशौ पुष्करोपहृतैरयम् ।
पुष्करैरेव चानर्च पुष्करं गाहितुं पुनः ॥ ३५ ॥
सितं हि काञ्चनं पुष्पं शिवस्यैवाभवन्मुदे ।
पिशङ्गं तु तदानीतं प्रीतये शिवयोरभूत् || ३६ ||
मुक्तशापो गजः पृथ्वीं मुदा यदपचस्करे ।
गजतीर्थमिति ख्यातं तद् बभूव महत् सरः ॥ ३७ ॥

१. अधीयाय सस्मार. २. शवगाङ्गेयैः शिवगङ्गासम्बन्धिभिः ३. चतुर्णा पुष्करपदानां
लगुण्डापद्मव्योमानि कमेणार्थाः ४. उन्मत्ताख्यम्.

  • 'वनादस्माद्' इति खपुस्तके पाठः.