पृष्ठम्:शिवलीलार्णवः.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
शिवलीलार्णवे


अथ चतुर्थः सर्गः।

निवृत्ते वासवे तस्मिन् निवृत्ते चान्तरे मनोः ।
इन्दाञ्चकार कोऽप्यन्यो वृन्दारकनिकेतने ॥ १॥
अभ्रमातङ्गमारुह्य विभ्रमादमरेश्वरः ।
संवृतः सकलैर्देवैर्निजंगाम पुराद् बहिः ॥ २ ॥
सर्वासामपि सिद्धीनां दुर्वासा निधिरद्भुतः ।
समगच्छत तेनाभ्रे स हि गच्छन् यदृच्छया ॥ ३ ॥
परिपालयितुं रौद्री प्रतिसधिकारिताम् ।
तस्य न ज्वलति क्रोधो यस्यैका जगदाहुतिः ॥ ४ ॥
अग्नयगारगते तस्मिन्ननाहूतागताः स्वयम् ।
सन्दर्शयन्ति स्वात्मानं देवा आवाहनक्षणे ॥ ५ ॥
नानुगच्छति तस्याग्निर्न विप्यन्दयते हविः ।
नापक्षयति सन्त्रस्तो न निर्मन्थे विळम्बते ॥ ६ ॥
अतपत्तपनाकारमज्वलज्ज्वलनोपमम् ।
दृष्ट्वैव तं मुनिं देवास्तत्रसुस्तत्र सुस्थिताः ॥ ७ ॥
पाणिभ्यामप्रमत्तोऽसौ प्रसादं पद्ममैश्वरम् ।
गजस्कन्धगतायापि ददो गजेति वज्रिणे ॥ ८ ॥
अनादृत्य स तं मोहान्निदधे मूर्ध्नि दन्तिनः ।
शुण्डया सोऽप्युपादाय निप्पिपेप निसर्गतः ॥ ९ ॥
आभुज्य स भ्रुवौ किञ्चिदावर्त्य कपिले दृशौ ।
प्रजज्वालेव कोपेन मुनिः प्रस्फुरिताधरः ॥ १० ॥
पस्पन्दे न सहस्रांशुम्तम्तम्भे मारुतस्तदा ।
चकम्पे सार्णवा पृथ्वी विव्यथे केवलं नभः ॥ ११ ॥
स हस्तिहस्तिपकयोः शापं घोरमवासृजत् ।
वज्रं वज्रिणि दुर्वारमङ्कुशं च निरङ्कुशे ॥ १२ ॥
मौलिं भेत्स्यति पाण्ड्योऽस्य मदान्धस्य दिवम्पतेः ।
सञ्चरत्ववनावेष कुञ्चरः क्षुद्रदन्तिवत् ॥ १३ ॥



१. इन्दाश्चकार इन्द्रत्वं प्रापेत्यर्थः । इदि परमैश्वर्ये.