पृष्ठम्:शिवलीलार्णवः.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
शिवलीलार्णवे


चिद्रूपमानन्दमयं च वेदाः शैवं वपुः शाश्वतमामनन्ति ।
दयामयं तेऽपि विदुर्न जातु दृष्टं तदत्रैव कदम्बमूले ॥ ५१ ॥
गूढं भवामीत्यभिमानमात्रं गूढं परं ज्योतिरिदं कथं स्यात् ।
यन्मूर्धनि प्रत्युत चन्द्ररेखा तेनैव तत् प्रैक्षि कदम्बमूले || ५२ ॥
ख्याताः कला यद्यपि तत्र लिङ्गे पञ्चैत्र सिद्धाः शिवशासनेषु ।
तथापि तेनाध्युषिते तु देशे कलाश्चतु षष्टिरपि स्फुरन्ति ॥ ५३ ॥
कृष्णार्जुनाभ्यां परिपूज्य लिङ्गमासादिताः सिद्धय इत्यवेत्य ।
कस्तूरिकाभिर्धनसारकैश्च लिम्पन्ति लोकाः खलु लिङ्गमेतत् || ५४ ॥
यत्पीठिकाधम्पदमात्रलग्ना वाणी बहिर्न क्रमते कथञ्चित् ।
तत् कारणेशत्रितयातिवर्त्ति लिङ्गं कया वर्णयितव्यमुक्त्या |॥ ५५ ॥
सदाभिषिक्तं विबुधस्रवन्त्या सदा समभ्यर्चितमिन्दुना च ।
लिङ्गं तदैशं विजने वनेऽनि लोकत्रयक्षेमकरं बभूव || ५६ ॥
कूजस्तु वन्येषु विहङ्गमेषु गायत्सु चाखण्डलगायनेषु' ।
प्रीतिं दधौ तुल्यवदेव देवः कतदृशा तेषु भवेद् विशेषः || ५७ ॥
विनोद्यते यः किल योगिवृर्न्दैविद्याधरैरप्सरसां गणैश्च ।
व्याधैर्मृगैः पक्षिभिरव्यरंन्त स देवदेवाश्चरमत्र लिङ्गे ।। ५८ ।।
अन्तर्हितावत्थितमत्र लिङ्गे तमारराधु'तरवः प्रसूनैः ।
शृङ्गाग्रकण्डूयनतः कुरङ्गा निर्मोकपट्टर्पिणतो भुजङ्गाः ॥ ५९ ॥
सन्ध्यासु सन्ध्याषु गणैरदृश्यैरारात्रिकं साधितमस्फुटं यत् ।
चक्रे जरज्जम्बुकवक्रलग्नैर्ज्वलाद्भिरेतज्ज्वलनैः तः प्रकाशम् ।। ६० ।।
वन्यद्विपेष्वन्यतमो गणेशो व्याधार्भकेष्वेकतमः कुमारः |
साऽन्यादिशक्तिः शबरीषु कापि भूत्वा विजह्रुः सविधे पुरारेः ॥ ६१ ॥
इत्थं परिभ्राम्यति कालचक्रे प्रणश्यति प्रोद्यति च प्रपञ्चे ।
देवेषु योगिष्वपि कोऽपि केऽपि शनैरबुध्यन्त रहस्यमेतत् ।। ६२ ।।



१. पञ्च अकारोकारमकारनादविदुपा २ लिम्पन्ति लेपनरूपया पूजया सम्भावयन्ति ।
करतू रेक याः कृष्णत्वान् घनसारकाणामर्जुनला च तेषु पूजासाधनत्वाभिमानो जनानामित्युत्प्रेक्ष्यते.



+ 'गायकेषु' इति खपुस्तके पाट:.