पृष्ठम्:शिवगीता.djvu/33

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



३०
[ अध्यायः ३
शिवगीता ।

 
मात्राः पञ्च चतस्रश्च त्रिमात्रा द्विस्ततः परम् ।
एकमात्रममात्रं च द्वादशान्तव्यवस्थितम् ॥ २४ ॥
स्थित्यां स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत् ॥ २५॥
इदं व्रतं पाशुपतं कथयिष्ये समासतः ।
प्रातरेव तु संकल्प्य निधायाग्निं स्वशाखया ॥ २६ ॥
उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् ।
शुक्लयज्ञोपवीतश्च शुक्लमाल्यानुलेपनः ॥ २७ ॥
जुहुयाद्विरजोमन्त्रैः प्राणापानादिभिस्ततः ॥
अनुवाकान्तमेकाग्रः समिदाज्यचरून्पृथक् ॥ २८ ॥


तमेव क्रमं स्फुटमाह-मात्रा इति । रूपरसगन्धस्पर्शशब्दतन्मात्रा इत्यर्थः । अयं भावः । पृथिवी पञ्चमात्रा । आपश्चतुर्मात्राः । तेजस्त्रिमात्रम् । वायुर्द्विमात्रः। आकाश एकमात्र इति । तथाच पूर्वपूर्वस्योत्तरोत्तरं प्रत्युपादानतया तदीयानां गुणानामप्युत्तरोत्तरमन्वयादिति भावः । अमात्रमिति । अहंकारमहत्तत्त्वमायानामेकतत्वेन ग्रहणं तच्चामात्रम् । अव्यक्तगुणभेदत्वाद्रूपादितन्मात्ररहितमित्यर्थः । तत्कीदृशम् । द्वादशान्तव्यवस्थितं पञ्चतन्मात्ररूपाः शब्दादयः पञ्चमहाभूतानि अहंकारमहत्तत्त्वमायाख्यमेकं एवमेकादश तत्त्वानि । एषामाधारः परमात्मा द्वादशः । स एवान्तो लयावधिरिति द्वादशान्तस्तस्मिन् व्यवस्थितं प्रविलापेनावस्थितं ध्यात्वेत्यर्थः ॥ २४ ॥ स्थित्यां स्थाप्येति । तदनन्तरममृतबीजेन तद्ध्यानपूर्वकं पुनः सर्वलयाधाराद्ब्रह्मणः सृष्टिक्रमेण पञ्चीकरणपूर्वकं पूर्ववद्देहस्थित्यां तानि तत्त्वान्यवस्थाप्य अमृतो भूत्वा । दिव्यदेहो भूत्वेत्यर्थः । पाशुपतं व्रतं चरेदिति भूतशुद्धिप्रकार उदाहृतः ॥२५॥ इदं व्रतमिति । समासतः संक्षेपेण संकल्प्य संकल्पं कृत्वा स्वशाखया स्वशाखोक्तविधिनाग्निं प्रतिष्ठाप्येत्यर्थः ॥ २६ ॥ उपोषित इति । स्पष्टम् ॥ २७ ॥ जुहुयादिति । त-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/33&oldid=294606" इत्यस्माद् प्रतिप्राप्तम्